सामग्री पर जाएँ

पुरःसरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरःसरः, त्रि, (पुरोऽग्रे सरति गच्छतीति । सृ + “पुरोऽग्रतोऽग्रेषु सर्त्ते ।” ३ । २ । ११८ । इति टः ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥ (यथा, महाभारते । ४ । १९ । २२ । “यस्याः पुरःसरा ह्यासन् पृष्ठतश्चानुयायिनः । साहमद्य सुदेष्णायाः पुरःपश्चाच्च गामिनी ॥”) अस्य पर्य्यायः अग्रसरशब्दे द्रष्टव्यः ॥

"https://sa.wiktionary.org/w/index.php?title=पुरःसरः&oldid=149428" इत्यस्माद् प्रतिप्राप्तम्