सामग्री पर जाएँ

पुरञ्जयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरञ्जयः, पुं, (पुरं शत्रुपुरं जयतीति । जि + खच् ।) सूर्य्यवंशीयराजविशेषः । तत्पर्य्यायः । काकुस्थः २ । इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ९ । ६ । १२ । “पितर्य्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् । शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः । ककुस्थ इति चाप्युक्तः शृणु नामानि कर्म्मभिः ॥” पूरुवंशीयः सृञ्जयपुत्त्रः । यथा, हरिवंशे । ३१ । १८ । “सृञ्जयस्याभवत् पुत्त्रो वीरो राजा पुरञ्जयः । जनमेजयो महाराज ! पुरञ्जयसुतोऽभवत् ॥” पुरं जयतीति । पुर + जि + खच् ।) पुरजय- कर्त्तरि, त्रि ॥ (यथा, महाभारते । १ । १०२ । ४५ । “स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ! ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुरञ्जयः&oldid=149433" इत्यस्माद् प्रतिप्राप्तम्