पुरद्विट्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुरद्विट्, [ष्] पुं, (पुरं द्वेष्टीति । द्विष् + क्विप् । मयनिर्म्मितानां पुरविशेषाणां दाहकत्वादस्य तथात्वम् ।) शिवः । इति जटाधरः ॥ (यथा, भागवते । ४ । ६ । ७ । “स इत्थमादिश्य सुरानजस्तु तैः समन्वितः पितृभिः सप्रजेशैः । ययौ सधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः ॥”)
