सामग्री पर जाएँ

पुरन्दरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरन्दरः, पुं, (अरीणां पुरो दारयतीति । दॄ + णिच् + “पूःसर्व्वयोर्दारिसहोः ।” ३ । २ । ४१ । इति खच् । “वाचं यमपुरन्दरौ च ।” ६ । ३ । ६१ । इति निपातितः ।) इन्द्रः । इत्यमरः । १ । १ । ४४ ॥ (यथा, महाभारते । ३ । १०१ । ९ । “कालेयभयसन्त्रस्तो देवः साक्षात् पुरन्दरः । जगाम शरणं शीघ्रं तन्तु नारायणं प्रभुम् ॥” पुरं गेहं दारयतीति । दारि + खच् । निपा- तितः ।) चौरः । यथा, -- “समांसमीना यदि पाकशाला समांसमीना दश धेनवः स्युः । पुरन्दरस्याविषयं यदि स्यात् पुरन्दरस्यापि पुरं न याचे ॥” इत्युद्भटः ॥

"https://sa.wiktionary.org/w/index.php?title=पुरन्दरः&oldid=149447" इत्यस्माद् प्रतिप्राप्तम्