सामग्री पर जाएँ

पुरन्ध्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरन्ध्री स्त्री, (स्वजनसहितं पुरं धारयतीति । धृञ + खच् । गौरादित्वात् ङीष् । पृषोदरादित्वात् ह्नस्वो वा ।) षतिपुत्त्रदुहि- त्रादिमती । इति भरतः ॥ तत्पर्य्यायः । कुटु- म्बिनी । इत्यमरः । २ । ६ । ६ ॥ (यथा, रघुः । ७ । २८ । “तौ स्नातकैर्बन्धुमता च राज्ञा पुरन्ध्रिभिश्च क्रमशः प्रयुक्तम् । कन्याकुमारौ कनकासनस्थौ आर्द्राक्षतारोपणमन्वभूताम् ॥”) स्त्रीमात्रम् । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरन्ध्री स्त्री।

पतिपुत्रातिमती

समानार्थक:कुटुम्बिनी,पुरन्ध्री

2।6।6।2।1

भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी। पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

"https://sa.wiktionary.org/w/index.php?title=पुरन्ध्री&oldid=186775" इत्यस्माद् प्रतिप्राप्तम्