पुरश्चरणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुरश्चरणम्, क्ली, (पुरोऽग्रतश्चरणं मन्त्रजपादि- पञ्चाङ्गकर्म्माचरणमिति ।) पुरस्क्रिया । सा तु स्वेष्टदेवतामन्त्रसिद्ध्यर्थं तद्देवतापूजापूर्ब्बकं तन्- सहसं साधको नित्यं सर्व्वसिद्धिपरायणः । पुरश्चरणमेतद्धि तन्त्रे तन्त्रे निरूपितम् ॥ संक्रान्त्यादिषु सर्व्वासु विषुवादिषु पार्व्वति ! । संक्रान्त्यनुसारेणैव वर्द्धयेच्च सहस्रकम् ॥ पूर्ब्बमुखो जपेन्मन्त्रं धनार्थी सर्व्वदा प्रिये ! । शत्रुनाशाय सततं दक्षिणाभिमुखो जपेत् ॥” इति स्वतन्त्रे तन्त्रे हरगौरीसंवादे रहस्यपुर- श्चरणविधिः ॥ * ॥) अत्र आगमकल्पद्रुमोक्त- कूर्म्मचक्रंतच्छब्दे द्रष्टव्यम् । हरिभक्तिविलासीय- पुरश्चरणन्तु तद्ग्रन्थे सप्तदशविलासे दर्शनीयम् ॥
