पुराणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुराणः, पुं, (पुरा पुर्ब्बस्मिन् काले भव इति । पुरा + “सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युष्ट्युलौ तुट्च ।” ४ । ३ । २३ । इति ष्ट्युः निपातनात् तुडभावः ।) पणः । (शिवः । यथा, महा- भारते । १३ । १७ । १०६ । “बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ॥”) पुरातने, त्रि । (यथा, मनुः । ५ । २३ । “बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् । पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥”) कार्षापणे, पुं, क्ली । इति शब्दरत्नावली ॥ (यथा, मनुः । ८ । १३६ । “ते षोडश स्याद्धरणं पुराणञ्चैव राजतम् । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥”)
