पुराणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुराणम्, क्ली, (पुरा भवमिति । पुरा + “सायं- चिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च ।” ४ । ३ । २३ । इति ट्युः । “पूर्ब्बकालैकसर्व्वजरत्पुराणनव- केवलाः समानाधिकरणेन ।” २ । १ । ४९ । इति निपातनात् तुडभावः । यद्वा, “पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ।” ४ । ३ । १०५ । इति निपा- तितः । यद्वा, पुरा नीयते इति । नी + ड । णत्वञ्च ।) व्यासादिमुनिप्रणीतवेदार्थवर्णित- पञ्चलक्षणान्वितशास्त्रम् । तत्पर्य्यायः । पञ्चलक्ष- णम् २ । इत्यमरः । १ । ६ । ५ ॥ पञ्चलक्षणानि यथा, सर्गः १ प्रतिसर्गः २ वंशः ३ मन्वन्तरम् ४ वंशानुचरितम् ५ ॥ महापुराणस्य दश लक्ष- णानि । यथा, सर्गः १ विसर्गः २ वृत्तिः ३ रक्षा ४ अन्तरम् ५ वंशः ६ वंश्यानुचरितम् ७ संस्था ८ हेतुः ९ अपाश्रयः १० ॥ अथाष्टादशमहा- पुराणानि तेषां श्लोकसंख्यानि च तथा । ब्राह्मं दशसहस्रम् १ पाद्मं पञ्चपञ्चाशत्सहस्रम् २ वैष्णवं त्रयोविंशतिसहस्रम् ३ शैवं चतुर्व्विंशति- सहस्रम् ४ भागवतम् अष्टादशसहस्रम् ५ नार- दीयं पञ्चविंशतिसहस्रम् ६ मार्कण्डेयं नवसह- स्रम् ७ आग्नेयं चतुःशताधिकपञ्चदशसहस्रम् ८ भविष्यं पञ्चशताधिकचतुर्द्दशसहस्रम् ९ ब्रह्मवैवर्त्तम् अष्टादशसहस्रम् १० लैङ्गं एका- दशसहस्रम् ११ वाराहं चतुर्व्विंशतिसहस्रम् १२ स्कान्दं शताधिकैकाशीतिसहस्रम् १३ वामनं दशसहस्रम् १४ कौर्म्मं सप्तदशसहस्रम् १५ मात्स्यं चतुर्द्दशसहस्रम् १६ गारुडं ऊन- विंशतिसहस्रम् १७ ब्रह्माण्डं द्वादशसहस्रम् १८ । समुदायेन चतुलक्षश्लोकाः । इति श्रीभागवतीय- द्वादशस्कन्धः ॥ (अपि च देवीभागवते १ स्कन्धे ३ अध्याये तथा मत्स्यपुराणे ५३ अध्याये एतद्विवरणं द्रष्टव्यम् ॥) अपि च । सूत उवाच । “विस्तराणि पुराणानि चेतिहासश्च शौनक ! । संहितां पञ्चरात्राणि कथयामि यथागमम् ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं विप्र ! पुराणं पञ्चलक्षणम् ॥ एतदुपपुराणानां लक्षणञ्च विदुर्बुधाः । महताञ्च पुराणानां लक्षणं कथयामि ते ॥ * ॥ तत्तु स्कान्दं समाख्यातम् १३ वामनस्य तु वामनम् ॥ १४ ॥ कौर्म्मं कूर्म्मस्य चरितम् १५ मात्स्यं मत्स्यस्य कीर्त्तितम् । १६ । गरुडस्तु स्वयं वक्ता यत्तद् गारुडसंज्ञ- कम् ॥ १७ ॥ ब्रह्माण्डचरितोक्तत्वात् ब्रह्माण्डं परिकी- र्त्तितम् ॥” १८ ॥ पुराभवः वेदः । सृष्ट्यादिप्रतिपादको ग्रन्थः । यथा, शतपथब्राह्मणे । १४ । ६ । १० । ६ । “ऋग्वेदो यजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि ॥” तथा च बृहदारण्यकोपनिषदि । “अस्य महतो भूतस्य निश्वसितमेतद् यदृग्वेदो यजुर्व्वेदः सामवेदोऽथर्व्वाङ्गिरस इतिहासः पुराणम् ॥” “इदं वा अग्रेणव किञ्चिदासीदित्यादिकं जगतः प्रागवस्थामुपक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम् ।” इति ऋग्वेदोपोद्घाते ॥ * ॥)
