सामग्री पर जाएँ

पुरातनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरातनः, पुं, (पुरा भवः । पुरा + ष्ट्युस्तुट् च ।) पुराणः । तद्वैदिकपर्य्यायः । प्रत्नम् १ प्रदिवः २ प्रवयाः ३ सनेमि ४ पूर्ब्बम् ५ अह्नाय ६ । इति षट्पुराणनामानि । इति वेदनिघण्टौ ३ अध्यायः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ६६ । “उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥”)

पुरातनः, त्रि, (पुरा पूर्ब्बस्मिन् काले भवः । पुरा + “सायंचिरेति ।” ४ । ३ । २३ । इति ष्ट्युस्तुट् च ।) पूर्ब्बकालभवः । पुराण इति भाषा । तत्पर्य्यायः । पुराणः २ प्रतनः ३ प्रत्नः ४ चिर- न्तनः ५ । इत्यमरः । ३ । १ । ७७ ॥ चिरत्नः ६ । इति जटाधरः ॥ (यदुक्तं नीतिशास्त्रे । “नवं वस्त्रं नवं छत्रं नव्या स्त्री नूतनं गृहम् । सवत्र नूतनं शस्तं सेवकान्ने पुरातने ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुरातनः&oldid=149472" इत्यस्माद् प्रतिप्राप्तम्