सामग्री पर जाएँ

पुरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरिः, स्त्री, (पूर्य्यते इति । पॄ + “कॄगॄशॄपॄ- कुटीति ।” उणा० ४ । १४२ । इति इः । स च कित् ।) पुरी । इत्यमरटीकायां भरतः ॥ नदी । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (शरी- रम् । इति पुरीतत्-शब्दटीकायां भरतः ॥)

पुरिः, पुं, (पूर्य्यते यशआदिभिरिति । पॄ + इः । सच कित् ।) राजा । इति सिद्धान्तकौमुद्य मुणादिवृत्तिः ॥ (सन्न्यासिविशेषः । शङ्कराचार्य्य- शिष्यतोटकस्य शिष्येषु अन्यतमशिष्याणा- मुपाधिविशेषः । इति केचित् ॥ तल्लक्षणं यथा, प्राणतोषिण्यामवधूतप्रकरणे । “ज्ञानतत्त्वेन संपूर्णः पूर्णतत्त्वपदे स्थितः । परब्रह्मरतो नित्यं पुरिनामा स उच्यते ॥” तथा च मुण्डमालातन्त्रे २ पटले । “देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा । अन्तर्यागेषु यो निष्ठः स वीरः पुरिरेव च ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरि(री)¦ स्त्री पूर्य्यते पॄ--इ किच्च।

१ नगरे

२ नद्याञ्च उज्-ज्वलद॰ वा ङीप्।

३ राजनि सि॰ कौ॰। तत्र जिगीषुनगरे वर्णनीयपदार्थाः भा॰ व॰ दर्शिता यथा
“अभिस रेण सर्वेण तत्र युद्धमवर्त्तत। पुरी समन्ताद्वि-हिता सपताका सतोरणा। सचक्रा सहुडा चैवसयन्त्रखनका तथा। सोपशल्यप्रतीलीका साट्टाट्टा-लकगोपुरा। सचक्रग्रहणी चैव सोल्कालातावपो-थिका। सोष्ट्रिका भरतश्रेष्ट! सभेरीपणवानका। सतोमराङ्कुशा राजन्! सशतघ्नीकलाङ्गला। सभुशुण्ड्यश्मगुडका सायुधा सपरश्वधा। लोहचर्मवती चापि साग्निःसगुडशृङ्गिका। शास्त्रदृष्टेन विधिना सुयुक्ता भर-तषभ!। रथैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः। पुरषैःकुरुशार्दूल! समर्थः प्रतिवारणे। अतिख्यातकुलैर्वीरै-र्दृष्टवीर्य्यैश्च संयुगे। मध्यमेन च गुल्मेन रक्षिभिःसा सुरक्षिता। उदक्षिप्तगुलमैश्च तथा हयैश्च सपता-किमिः। आघोपितञ्च नगरे न पातव्या सुरेति वै। पमार्द परिरक्षद्भिरुग्रसेनोद्धवादिभिः। प्रमत्तेष्वभिघातंहि कुर्य्याच्छाल्वो नराधिपः। इति कृत्वाऽप्रमत्तास्ते{??}र्ये वृष्ण्यन्धकाः स्थिताः। आनर्ताश्च, तथा सर्वे मट{??}र्त्तकतायनाः। वहिर्निवासिताः क्षिप्रं रक्षद्भिर्बित्त-सञ्चयम। संक्रमा भेदिताः सर्वे नावच्च प्रतिषेधिताः। परिखाश्चापि कौरव्य। कीलेः सुनिचिता कृताः। उद-पानाः कुरुश्रेष्ठ! तथैवाप्यम्बरोषकाः। समन्तात् क्रोश-मात्रञ्च कारिता वि{??}मा च भूः। प्रकृत्या विषमं दुर्गंप्रकृत्या च सुरक्षितम्। प्रकृत्या चायुधोषेतं विशेषेणतदाऽनच!। सुरक्षितम् सुगुप्तं च सर्वायुधसमन्त्रितम्। [Page4370-b+ 38] तत्पुरं भरतश्रेष्ठ। यथेन्द्रभवनं तथा। न चामुद्रोमिनि-र्याति न चामुद्रः प्रवेश्यते। वृष्ण्यन्धकपुरी राजंस्तदा सौभसमागमे। अनुरथ्यासु सर्वासु चत्वरेषु चकौरव!। बलं बभूव राजेन्द्र! पभूतनजवाजिमत्। दत्त-वेतनभक्तं च दत्तायुधपरिच्छदम्। कृतोपधानं चतदा बलमासीन् महाभुज!। न कुप्यवेतनी कश्चिन्नचातिक्रान्तवेतनी। नानुग्रहभृतः कश्चिन्न चादृष्टपरा-क्रमः। एवं सुविहिता राजन् द्वारका भूरिदक्षिणा। आहुकेन सुगुप्ता च राज्ञा राजीवलोचन!” भा॰ व॰

१५ अ॰।
“अभितः परित उपरितश्चायुधानां सरणं निःसरण-मभिसारस्तेन सर्वेणाच्छिद्रेण सर्वाभ्यो दिग्भ्यो युगपद-विरलायुधसमूहागमेनेत्यर्थः। पताका ध्वजाञ्चकःतोरणानि वहिर्द्वाराणि चक्राणि योधगणाः हुडास्त-दाश्रयस्थानानि भाषायां (वुरुज)इति संज्ञानि। अन्ये तुविण्मूत्रोत्सर्जनशृङ्गाणि हुडा इत्याहुः उदाहरन्ति च
“कल्प्यन्ते हुडशृङ्गाणि रथस्योपरि धूरपि विण्भूत्र-स्पर्शशुद्ध्यर्थं करादिस्पर्श उद्यते” इति। यन्त्राण्याग्ने-यौषधबलेन दृषत्पिण्डीत्क्षेपखानि महान्ति(कमान) इतिसंज्ञानि क्षुद्राणि सीसगुलिकोत्क्षेपणानि (वन्दुक) इतिसंज्ञानि। खनकाः सुरङ्गद्वारा गुप्तमार्गकर्त्तारः। उपशल्यालोहमुखाः कीलास्तद्युक्ताः प्रतोल्यो रथ्यामार्गा यस्या साअट्टालिका उपरिगृहाः गोपुराणि साट्टानि अट्टेनान्नेनसहितानि अट्टालकादीनि यस्यां सा साट्टेति विशेषणम्उपशल्यस्य ग्रामान्तस्य रथ्यायाश्चावृत्त्या संवध्यते। चक्र-ग्रहणी सैन्यनिग्राहिका (मोर्चा) इति म्लेच्छप्रसिद्धा। सोल्कालातावपोथिका सोल्कलातं ज्वालासहितमु-लमुकं यस्यां सा सोल्कालाता अवबद्धाः पोथिकायन्त्रबद्धाः काष्ठपाषाणादयो रिपूणामुपरिपातनाय यस्यामितिप्राञ्चः। उल्केवोल्का प्राणहरत्वाद्यन्त्रोत्क्षिप्तो गोलःअलातं सकाष्ठदण्डलोहमयमाग्नेयं प्रहरणं (वाण)इति भाषायां प्रसिद्धं तयोरप्रत्याख्येयनत्योरवपोथिकाः पातयित्र्यो गन्त्रमय्यः शक्तयः कर्णायेन्द्रदत्तशक्तिसदृशास्तद्युक्ताः सोल्कालातावपोक्षिकाः। उष्ट्रिश्चा मृच्चर्म-मयाणि भाण्डानि सर्ष्टिकेति पाठे ऋष्टय आयुथचि-शेषाः। अश्मगुडका वर्तुलीकृताः पाषाणाः लोहमयानिचर्माणि कमठपृष्ठाकाराणि प्रहारवारकाणि (ढास) सा-ग्निः आग्नेयौषधसहिता गुडागोलकः शृङ्गिकास्तदुत्क्षेपकयन्त्राणि शत्रूणासुपरिपातनाय तप्तोगुडो द्रवीभूतो[Page4371-a+ 38] यत्र शिखरे स्थाप्यते तत्सहितेत्यन्ये। मध्यमो गुल्मःयत्र स्थितेन योधसङ्घेन चतुर्दिगवस्थिता रिपवोद्रष्टुंवाणादिना प्रहर्तुं च शक्यन्ते तादृशमुच्चस्थानम्। उत्-क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः। अप्रमत्ता इति-च्छेदः। संक्रमा नदीसेतवः। कीलैः शूलैः सुनिचिताव्याप्नाः।
“उदपानाः कूपाः
“अम्बरीषो भवेद्भ्राष्ट्र” इतिविश्वः गुप्ताग्निरित्यन्ये। विषमलोहकण्टकाद्याकीर्णा। अनुरथ्यासु प्रतिरथ्यम्। वेतनं धनं भक्तं नित्यभोजनंकृतोपधानं कृतविशेषम्। कुप्यं स्वर्णरूप्येतरधनं ताम्रा-दि। ग्रहोरणोद्यमस्तमनुलक्ष्यीकृत्य भृतोऽनुग्रहभृत-स्तत्कालस्वीकृतो न कश्चित् किन्तु चिरसंभृत एव। कृपाभृतो न किन्तु शौर्य एवेति वा। भूरिदक्षिणा बहवोदाक्षिण्ययुक्ता यस्याम् आहुकेन उग्रसेनेन” नील॰।

४ सन्न्यासिनामुपाधिभेदे स्त्री
“ज्ञानरत्नेन सम्पूर्णा पूर्ण-तत्त्वपथस्थितिः। परब्रह्मरतो नित्यं पुरीनामा स उ-च्यते” महानिर्वा॰।

५ देहे च स्त्री।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरि¦ f. (-रिः or री)
1. A town, a city.
2. A river. m. (-रिः) A king, a sovereign. E. पॄ to fill or to cherish, इ Un4adi aff.: see पुर, and पुरी।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरिः [puriḥ], f.

A town, city.

A river.

A king.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरि loc. of 3. पुर्, in comp.

पुरि f. a town or a river Un2. iv , 142 Sch.

पुरि 1. and 2, पुरि; पुरी. See. above.

"https://sa.wiktionary.org/w/index.php?title=पुरि&oldid=310148" इत्यस्माद् प्रतिप्राप्तम्