सामग्री पर जाएँ

पुरीषम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरीषम्, क्ली, (पिपर्त्ति शरीरमिति । प + “शॄ- पॄभ्यां किच्च ।” उणा० ४ । २७ । इति ईषन् । स च कित् ।) विष्ठा । इत्यमरः । २ । ६ । ६९ ॥ तदुत्सर्गविधिर्यथा, -- “मुहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत् । परिधायापरं वस्त्रं शयनस्थानतोऽन्वहम् ॥ मुखाङ्घ्रिहस्तान् प्रक्षाल्य द्विराचम्य ततो द्विजः । कृष्ण कृष्ण स्मृतिं कृत्वा खनित्वा नैरृतीं दिशम् ॥ खनित्रखननेनैव द्बादशाङ्गुल्यधोमृदम् । गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुःशतम् ॥ ग्रामाद्बा शरविक्षेपमात्रामनुदिते रवौ । मैत्रमावश्यकं कर्त्तुं नगराच्च चतुर्गुणाम् ॥ तत्त्रिमुष्ट्यायतं गर्त्तं तथा कृत्वा गभीरकम् । कृत्वा त्वद्भिः खनित्रेण कुशैराच्छाद्य तत्तृणम् ॥ शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्तमवगुण्ठितः । संवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभाजनैः ॥ छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ । ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम् ॥ यज्ञोपवीतं कर्णेऽथ धृत्वा मौनी च दक्षिणे । आगतो द्बिजमग्निं नोपश्यन् सन्तञ्च भास्करम् ॥ गुरुं समीरणं सर्व्वदेवतामूर्त्तिमेव च । मातरं पितरं चन्द्रं सर्व्वं गुरुजनं स्त्रियम् ॥ * ॥ उदङ्मुखस्त्रिसन्ध्यासु दिवसे च यदा निशि । दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरीषयोः ॥ पूर्ब्बाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखोऽथवा । अपराह्णे पूर्ब्बमुखी मूत्रगूथविसर्जनम् ॥ मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः । दक्षिणाभिमुखो रात्रौ द्बिजो मैत्रं प्रयत्नतः ॥ निशायामन्धकारे तु छायायां दिवसे तथा । यथेच्छसुमुखो भूत्वा मैत्रं कुर्य्यात् द्बिजो भयात् ॥ दिग्भ्रमाच्च मनोदुःखाद्बिण्मूत्रस्य विसर्ज्जनम् । मोहाद्वाधोमुखः कुर्य्याद्यतवाक् प्रयतो द्विजः ॥ सन्न्यासी ब्रह्मचारी च वानप्रस्थो गृही द्विजः । शाखाध्यायी च वेदानां सर्व्वयज्ञेषु दीक्षितः ॥ मुनिश्च सर्व्वधर्म्मज्ञो दान्तः शान्त उदारधीः । सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव च ॥ सप्त वामकरे दद्यान्मृदस्त्रिंशच्चतुर्द्दश । तिस्रो वा हस्तयोः सप्त चतुर्द्दश च षोडश ॥ पाण्योरेकां मृदं पृष्ठे षड्वा तिस्रश्च मृत्तिकाः । हस्तद्वयनखेष्वेकां तिस्रश्च षड्मृदस्तथा ॥ * ॥ मैथुने रेतःस्खलने मूत्रोत्सर्गे च मृद्द्वयम् । दद्यात्तिस्रश्च शिश्नैकां तिस्रो वामकरे मृदः ॥ हस्ते च मृद्द्वयं म्रक्षेत्तिस्रो वा शुद्धितत्परः । पदैकैके द्विजस्तिस्रो गृहीत्थं शौचमाचरेत् ॥ गृहिणो द्बिगुणं शौचं यत्नतो ब्रह्मचारिणाम् । गृहस्थवानप्रस्थानां प्रोक्तं त्रिगुणमेव च ॥ सन्न्यासिनां वैष्णवानां शौचं सेव्यं चतुर्गुणम् । हस्तपाद्बारिपात्रन्तु मृद्भिरद्भिश्च गोमयैः ॥ दिवा यद्विहितं शौचं निशायामर्द्धकं भवेत् । एतदर्द्धमशौचे तु जातके मृतकेऽपि च ॥ चौरादिवाधिते मार्गे शौचमस्यार्द्धमाचरेत् । योषितामेतदर्द्धन्तु शूद्रादीनाञ्च नारद ! ॥ व्याधिभिश्चातुरो मर्त्य आर्त्तो यदि यथाबलम् । शौचं कुर्य्यात् कृतं यत्र तत् स्थानं शोधयेज्जलैः ॥ वेदस्मृतिपुराणानि धर्म्मशास्त्राणि नैत्यिकम् । मैत्रादिकर्म्म यः कुर्य्याद्विहाय मन्दधीर्द्विजः ॥ प्रतिप्रज्ञानमायुश्च प्रज्ञां हन्ति यशः श्रियम् । बलमाचारहीनस्य सदा तस्यापवित्रता ॥ * ॥ सात्वताश्चेद्द्विजा भूपा वैश्यशूद्रान्त्यजाः स्त्रियः । कुर्व्वन्ति शौचं यत्नेन यावच्चेतःपवित्रता ॥ येषां कृष्णस्य मननं तथा नामप्रजल्पनम् । सदैव स्मरणं भागवतानां साधुसेवनम् ॥ भक्तिप्रधौतमनसां गोविन्दार्पितकर्म्मणाम् । बाह्यान्तःकृष्णचित्तानां शुचिता तदहर्निशम् ॥ मृद्गोमयजलैः शौचमनेकैः कुरुते यदि । मनोऽपवित्रता यस्य कदाचिद्वै न शुध्यति ॥ गोविन्ददासता नास्ति यस्य लोकस्य जन्मनि । सोऽपि देहाशुचिः कृत्वा शौचं मैत्रादिकर्म्मसु ॥ शतधा यदि देवर्षे शौचं कुर्य्यात् सहस्रधा । मृद्वारिगोमयैर्लोको भावदुष्टो न शुध्यति ॥ सदा चित्तापवित्रत्वमकार्ष्णो भुवि यो नरः । तस्य तु स्यान्न मैत्रादिशौचेनैव स शुध्यति ॥ पर्व्वताकारकूटैश्च गोविट्सर्व्वनदीजलैः । शौचं कृत्वा न शुध्येत दुष्टचित्तो भवेद्यदि ॥” इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥ (उदकम् । इति निघण्टुः । १ । १२ ॥ “पूरयति जगत् प्रलयकाले पूर्य्यते अनेन तडाकादि पालकं वा जगतः शस्योत्पत्तिहेतुत्वात् । प्रीणातेर्वा बाहुलकात् कीषन्प्रत्ययः ईकारस्योकारा- देशः स च पकारात् परो द्रष्टव्यः ।” इति तत्र देवराजयज्वा ॥ यथा, ऋग्वेदे । १ । १६३ । १ । “यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ॥” “पुरीषात् सर्व्वकामानां पूरकादुदकात् ॥” इति तद्भाष्ये सायनः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरीषम् [purīṣam], [पॄ-ईषन् किच्च Uṇ.4.27]

Feces, excrement, ordure; तस्याः पुरीषे तन्मांसं पितरस्तस्य शेरते Ms.3.25;4. 56;5;123;6,76.

Rubbish, dirt. -ष्यम् excremental dirt; द्रवत्पुरीष्याः पुलिनैः समन्ततः Bhāg.1.18.6.

Ved. Water. -Comp. -आधानम् the rectum. -उत्सर्गः voiding excrement. -निग्रहणम् obstruction of the bowels. -भेदः diarrhœa.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--faeces; to be discharged at a distance from the house in the S.W. direction, without touching the head with the hand; other details connected with cleansing follow; he who discards these rules becomes a म्लेच्छ; शौच leads by itself to मोक्ष। वा. ७८. ५९-67 and ७४-5.

"https://sa.wiktionary.org/w/index.php?title=पुरीषम्&oldid=432781" इत्यस्माद् प्रतिप्राप्तम्