पुरीषम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुरीषम्, क्ली, (पिपर्त्ति शरीरमिति । प + “शॄ- पॄभ्यां किच्च ।” उणा० ४ । २७ । इति ईषन् । स च कित् ।) विष्ठा । इत्यमरः । २ । ६ । ६९ ॥ तदुत्सर्गविधिर्यथा, -- “मुहूर्त्ते ब्राह्म उत्थाय रात्रिवासं परित्यजेत् । परिधायापरं वस्त्रं शयनस्थानतोऽन्वहम् ॥ मुखाङ्घ्रिहस्तान् प्रक्षाल्य द्विराचम्य ततो द्विजः । कृष्ण कृष्ण स्मृतिं कृत्वा खनित्वा नैरृतीं दिशम् ॥ खनित्रखननेनैव द्बादशाङ्गुल्यधोमृदम् । गृहीत्वोदकपात्रञ्च मितं गच्छेद्धनुःशतम् ॥ ग्रामाद्बा शरविक्षेपमात्रामनुदिते रवौ । मैत्रमावश्यकं कर्त्तुं नगराच्च चतुर्गुणाम् ॥ तत्त्रिमुष्ट्यायतं गर्त्तं तथा कृत्वा गभीरकम् । कृत्वा त्वद्भिः खनित्रेण कुशैराच्छाद्य तत्तृणम् ॥ शुष्कैः काष्ठैरयज्ञीयैर्भूगर्त्तमवगुण्ठितः । संवीताङ्गो वेणुदलैः पत्रैर्मृण्मयभाजनैः ॥ छत्रं खनित्रं संस्थाप्य वारिपात्रमुपानहौ । ततो द्विजस्तूपविशेद्वस्त्रेणाच्छाद्य मस्तकम् ॥ यज्ञोपवीतं कर्णेऽथ धृत्वा मौनी च दक्षिणे । आगतो द्बिजमग्निं नोपश्यन् सन्तञ्च भास्करम् ॥ गुरुं समीरणं सर्व्वदेवतामूर्त्तिमेव च । मातरं पितरं चन्द्रं सर्व्वं गुरुजनं स्त्रियम् ॥ * ॥ उदङ्मुखस्त्रिसन्ध्यासु दिवसे च यदा निशि । दक्षिणामुख उत्सर्गं कुर्य्यान्मूत्रपुरीषयोः ॥ पूर्ब्बाह्णे तु द्विजः कुर्य्यात् पश्चिमाभिमुखोऽथवा । अपराह्णे पूर्ब्बमुखी मूत्रगूथविसर्जनम् ॥ मध्याह्ने प्रयतः कुर्य्याद्यतवागुत्तरामुखः । दक्षिणाभिमुखो रात्रौ द्बिजो मैत्रं प्रयत्नतः ॥ निशायामन्धकारे तु छायायां दिवसे तथा । यथेच्छसुमुखो भूत्वा मैत्रं कुर्य्यात् द्बिजो भयात् ॥ दिग्भ्रमाच्च मनोदुःखाद्बिण्मूत्रस्य विसर्ज्जनम् । मोहाद्वाधोमुखः कुर्य्याद्यतवाक् प्रयतो द्विजः ॥ सन्न्यासी ब्रह्मचारी च वानप्रस्थो गृही द्विजः । शाखाध्यायी च वेदानां सर्व्वयज्ञेषु दीक्षितः ॥ मुनिश्च सर्व्वधर्म्मज्ञो दान्तः शान्त उदारधीः । सदोत्तरमुखः कुर्य्याद्वैष्णवो नान्य एव च ॥ सप्त वामकरे दद्यान्मृदस्त्रिंशच्चतुर्द्दश । तिस्रो वा हस्तयोः सप्त चतुर्द्दश च षोडश ॥ पाण्योरेकां मृदं पृष्ठे षड्वा तिस्रश्च मृत्तिकाः । हस्तद्वयनखेष्वेकां तिस्रश्च षड्मृदस्तथा ॥ * ॥ मैथुने रेतःस्खलने मूत्रोत्सर्गे च मृद्द्वयम् । दद्यात्तिस्रश्च शिश्नैकां तिस्रो वामकरे मृदः ॥ हस्ते च मृद्द्वयं म्रक्षेत्तिस्रो वा शुद्धितत्परः । पदैकैके द्विजस्तिस्रो गृहीत्थं शौचमाचरेत् ॥ गृहिणो द्बिगुणं शौचं यत्नतो ब्रह्मचारिणाम् । गृहस्थवानप्रस्थानां प्रोक्तं त्रिगुणमेव च ॥ सन्न्यासिनां वैष्णवानां शौचं सेव्यं चतुर्गुणम् । हस्तपाद्बारिपात्रन्तु मृद्भिरद्भिश्च गोमयैः ॥ दिवा यद्विहितं शौचं निशायामर्द्धकं भवेत् । एतदर्द्धमशौचे तु जातके मृतकेऽपि च ॥ चौरादिवाधिते मार्गे शौचमस्यार्द्धमाचरेत् । योषितामेतदर्द्धन्तु शूद्रादीनाञ्च नारद ! ॥ व्याधिभिश्चातुरो मर्त्य आर्त्तो यदि यथाबलम् । शौचं कुर्य्यात् कृतं यत्र तत् स्थानं शोधयेज्जलैः ॥ वेदस्मृतिपुराणानि धर्म्मशास्त्राणि नैत्यिकम् । मैत्रादिकर्म्म यः कुर्य्याद्विहाय मन्दधीर्द्विजः ॥ प्रतिप्रज्ञानमायुश्च प्रज्ञां हन्ति यशः श्रियम् । बलमाचारहीनस्य सदा तस्यापवित्रता ॥ * ॥ सात्वताश्चेद्द्विजा भूपा वैश्यशूद्रान्त्यजाः स्त्रियः । कुर्व्वन्ति शौचं यत्नेन यावच्चेतःपवित्रता ॥ येषां कृष्णस्य मननं तथा नामप्रजल्पनम् । सदैव स्मरणं भागवतानां साधुसेवनम् ॥ भक्तिप्रधौतमनसां गोविन्दार्पितकर्म्मणाम् । बाह्यान्तःकृष्णचित्तानां शुचिता तदहर्निशम् ॥ मृद्गोमयजलैः शौचमनेकैः कुरुते यदि । मनोऽपवित्रता यस्य कदाचिद्वै न शुध्यति ॥ गोविन्ददासता नास्ति यस्य लोकस्य जन्मनि । सोऽपि देहाशुचिः कृत्वा शौचं मैत्रादिकर्म्मसु ॥ शतधा यदि देवर्षे शौचं कुर्य्यात् सहस्रधा । मृद्वारिगोमयैर्लोको भावदुष्टो न शुध्यति ॥ सदा चित्तापवित्रत्वमकार्ष्णो भुवि यो नरः । तस्य तु स्यान्न मैत्रादिशौचेनैव स शुध्यति ॥ पर्व्वताकारकूटैश्च गोविट्सर्व्वनदीजलैः । शौचं कृत्वा न शुध्येत दुष्टचित्तो भवेद्यदि ॥” इति पाद्मोत्तरखण्डे १०९ अध्यायः ॥ (उदकम् । इति निघण्टुः । १ । १२ ॥ “पूरयति जगत् प्रलयकाले पूर्य्यते अनेन तडाकादि पालकं वा जगतः शस्योत्पत्तिहेतुत्वात् । प्रीणातेर्वा बाहुलकात् कीषन्प्रत्ययः ईकारस्योकारा- देशः स च पकारात् परो द्रष्टव्यः ।” इति तत्र देवराजयज्वा ॥ यथा, ऋग्वेदे । १ । १६३ । १ । “यदक्रन्दः प्रथमं जायमान उद्यन्त्समुद्रादुत वा पुरीषात् ॥” “पुरीषात् सर्व्वकामानां पूरकादुदकात् ॥” इति तद्भाष्ये सायनः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुरीषम् [purīṣam], [पॄ-ईषन् किच्च Uṇ.4.27]
Feces, excrement, ordure; तस्याः पुरीषे तन्मांसं पितरस्तस्य शेरते Ms.3.25;4. 56;5;123;6,76.
Rubbish, dirt. -ष्यम् excremental dirt; द्रवत्पुरीष्याः पुलिनैः समन्ततः Bhāg.1.18.6.
Ved. Water. -Comp. -आधानम् the rectum. -उत्सर्गः voiding excrement. -निग्रहणम् obstruction of the bowels. -भेदः diarrhœa.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--faeces; to be discharged at a distance from the house in the S.W. direction, without touching the head with the hand; other details connected with cleansing follow; he who discards these rules becomes a म्लेच्छ; शौच leads by itself to मोक्ष। वा. ७८. ५९-67 and ७४-5.
