पुरुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुरुः, पुं, (पिपर्त्ति पूर्य्यते वेति । पॄ + “पॄभिदि- व्यधिगृधिधृषिदृशिभ्यः ।” उणा० १ । २४ । इति कुः । “उदोष्ठ्यपूर्ब्बस्य ।” ७ । १ । १०२ । इति उत्वम् । “उरण्रपरः ।” १ । १ । ५१ । इति रपरत्वम् ।) देवलोकः । नृपभेदः । स च ययातेः कनिष्ठपुत्त्रः । (आद्यूदन्तोऽपि पाठः ।) परागः । इति मेदिनी । रे, ५८ ॥ दैत्यः । इत्यु- णादिकोषः ॥ नदीभेदे, त्रि । इति शब्दरत्ना- वली ॥ (राजविशेषः । यथा, महाभारते । २ । ४ । २७ । “सुकर्म्मा चेकितानश्च पुरुश्चामित्रकर्षणः ॥” चाक्षुषमनोः पुत्त्रभेदः । यथा, मार्कण्डेये । ७६ । ५५ । “उरूपुरुशतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्त्राः पृथिवीपतयोऽभवन् ॥” पर्व्वतभेदः । यथा, महाभारते । ३ । ९० । २२ । “पर्व्वतश्च पुरुर्नाम यत्र जातः पुरूरवाः । भृगुर्यत्र तपस्तेपे महर्षिगणसेविते ॥” शरीरम् । यथा, शङ्करविजये । १३ अध्याये । “पुरुसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ॥”) प्रचुरे, त्रि । इत्यमरः । ३ । १ । ६३ ॥ (यथा, नैषधे । १९ । ५ । “स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः पुरुसितगरुच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः ॥”)
