सामग्री पर जाएँ

पुरुषकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरुषकारः, पुं, (पुरुषस्य कारः करणम् ।) पुरु- षस्य कृतिः । पौरुषम् । चेष्टा । यथा, -- मनुरुवाच । “दैवे पुरुषकारे च किं ज्यायस्तं ब्रवीहि मे । अत्र मे संशयो देव छेत्तुमर्हस्यशेषतः ॥ मत्स्य उवाच । स्वमेव कर्म्म दैवाख्यं विद्धि देहान्तरार्जितम् । तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः ॥ प्रतिकूलन्तथा दैवं पौरुषेण विहन्यते । मङ्गलाचारयुक्तानां नित्यमुत्थानशीलिनाम् ॥ येषां पूर्ब्बकृतं कर्म्म सात्त्विकं मनुजोत्तम ! । पौरुषेण विना तेषां केषाञ्चिद्दृश्यते फलम् ॥ कर्म्मणा प्राप्यते लोके राजसस्य तथा फलम् । कृच्छ्रेण कर्म्मणा विद्धि तामसस्य तथा फलम् ॥ पौरुषेणाप्यते राजन् ! मार्गितव्यं फलं नरैः । दैवमेव विजानन्ति नराः पौरुषवर्ज्जिताः ॥ तस्मात्त्रिकालसंयुक्तं दैवं न सफलं भवेत् । पौरुषं दैवदम्पत्या काले फलति पार्थिव ! ॥ दैवं पुरुषकारश्च कालश्च मनुजोत्तम ! । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम् ॥ कृषेर्वृष्टिसमायोगाद्दृश्यन्ते फलसिद्धयः । तास्तु काले प्रदृश्यन्ते नैवाकाले कथञ्चन ॥ तस्मात् सदैव कर्त्तव्यं सधर्म्मं पौरुषं नृभिः । एवन्ते प्राप्नुवन्तीह परलोकफलं ध्रवम् ॥ लालसाः प्राप्नुवन्त्यर्थान्न च दैवपरायणाः । तस्मात् सर्व्वप्रयत्नेन पौरुषे यत्नमाचरेत् ॥ त्यक्त्वालसान् दैवपरान् मनुष्या- नुत्थानयुक्तान् पुरुषान् हि लक्ष्मीः । अन्विष्य यत्नाद्बृणुते नृपेन्द्र ! तस्मात् सदोत्थानवता हि भाव्यम् ॥” इति मात्स्ये दैवपुरुषकारको नाम १९५ अध्यायः ॥ (यथा च नीतिशास्त्रे । “यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुरुषकारः&oldid=149511" इत्यस्माद् प्रतिप्राप्तम्