पुरुषार्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुरुषार्थः, पुं, (पुरुषस्य अर्थः ।) पुरुषस्य प्रयो- जनम् । स च चतुर्विधः । यथा, अग्निपुराणे । “धर्म्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः ॥” (यथा, मनुः । ७ । १०० । “एतच्चतुर्व्विधं विद्यात् पुरुषार्थप्रयोजनम् ॥”) गोस्वामिमते भक्तिः पञ्चमपुरुषार्थः ॥ (पुरुष- कारः । यथा, महाभारते । ३ । १७९ । २७ । “दैवं पुरुषकारेण को वञ्चयितुमर्हति । दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥”)
