सामग्री पर जाएँ

पुरुषोत्तमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरुषोत्तमः, पुं, (पुरुषेषु उत्तमः ।) विष्णुः । इत्य- मरः । १ । १ । २१ ॥ (यथा, रघुः । ३ । ४९ । “हरिर्यथैकः पुरुषोत्तमः स्मृतः महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्म्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥” एतन्निरुक्तिर्यथा, महाभारते । ५ । ७० । १० । “पुराणात् सदनाच्चापि ततोऽसौ पुरुषो- त्तमः ॥”) जिनराजविशेषः । तत्पर्य्यायः । सोमभूः २ । इति हेमचन्द्रः । ३ । ३५९ ॥ पुरुषेषु मध्ये उत्तमः । यथा, धर्म्मपुराणे । “विशेषसमभावस्य पुरुषस्यानघस्य च । अरिमित्रेऽप्युदासीने मनो यस्य समं व्रजेत् ॥ समो धर्म्मः समः स्वर्गः समो हि परमं तपः । यस्यैवं मानसं नित्यं स नरः पुरुषोत्तमः ॥” (पुरुषोत्तमो जगन्नाथोऽस्त्यत्रेति । अच् । उत्कलखण्डैकदेशः । स तु पीठस्थानानामन्य- तमः । तत्र भगवती विमलारूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ६४ । “गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥” ग्रन्थकर्त्तृविशेषः । स तु प्रयोगरत्नमालाव्याकर- णस्य द्विरूपैकाक्षरहारावलीकोषाणां अन्ये- षाञ्च कतिपयग्रन्थानां प्रणेता ॥)

"https://sa.wiktionary.org/w/index.php?title=पुरुषोत्तमः&oldid=149549" इत्यस्माद् प्रतिप्राप्तम्