पुरूरवाः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुरूरवाः [स्] पुं, (पुरु प्रचुरं यथा स्यात्तथा रौतीति । “पर्व्वतश्च पुरुर्नाम यत्र यज्ञे पुरू- रवाः ।” ३ । ९० । २२ । इति महाभारतोक्तवचनात् पुरौ पर्व्वते रौतीति वा । पुरु + रु + “पुरू- रवाः ।” उणा० ४ । २३१ । इति असिप्रत्य- येन निपातनात् साधुः ।) बुधस्य पुत्त्रः । स तु चन्द्रवंशीयादिराजः । तत्पर्य्यायः । बौधः २ ऐलः ३ उर्व्वशीरमणः ४ । इति हेमचन्द्रः ॥ यथा, अग्निपुराणे । “ततो बुधाश्रमं प्रायादिडा रूपाश्रिता सती । बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ॥ सोमपुत्त्राद्बुधाद्राजन् ! तस्या जज्ञे पुरूरवाः । जनयित्वा ततः सा तं पुनः सुद्युम्नतां गता ॥” अपि च । “इलोदरे च धर्म्मिष्ठं बुधः पुत्त्रमजीजनत् । अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा ॥ पुरूरवा इति ख्यातः सर्व्वलोकनमस्कृतः । हिमवच्छिखरे रम्ये आराध्य स जनार्द्दनम् । लोकैश्वर्य्यमगाद्राजा सप्तद्बीपपतिस्तदा ॥ केशिप्रभृतयो दैत्यास्तस्य भृत्यत्वमागताः । उर्व्वशी यस्य पत्नीत्वमगात् सद्रूपमोहिता ॥ सप्तद्वीपा वसुमती सशैलवनकानना । धर्म्मेण पालिता तेन सर्व्वलोकहितैषिणा ॥ चामरग्राहिणी कीर्त्तिः सम्पन्नैकाङ्गवाहिका । विष्णुप्रसादाद्देवेन्द्रो ददावर्द्धासनन्तदा ॥ धर्म्मार्थकामान्धर्म्मेण सममेवाभ्यपालयत् । धर्म्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकात् पुरा ॥” इति मात्स्ये २४ अध्यायः ॥ (अस्य विशेषविवरणन्तु हरिवंशे २६ अध्याये द्रष्टव्यम् ॥ * ॥) विश्वदेवः । इति जटाधरः ॥ पार्व्वणश्राद्धदेवः । यथा, -- “पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ ॥” इति श्राद्धतत्त्वे बृहस्पतिः ॥
