सामग्री पर जाएँ

पुरोगमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरोगमः, त्रि, (पुरोऽग्रे गच्छतीति । गम + अच् ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥ (यथा, महाभारते । ६ । १९ । १० । “यं दृष्ट्वा पार्थिवाः सर्व्वे दुर्य्योधनपुरोगमाः । निवर्त्तिष्यन्ति संत्रस्ताः सिंहं क्षुद्रमृगा यथा ॥” कुक्कुरे, पुं । इति हेमचन्द्रटीका ॥)

"https://sa.wiktionary.org/w/index.php?title=पुरोगमः&oldid=149562" इत्यस्माद् प्रतिप्राप्तम्