सामग्री पर जाएँ

पुरोडाशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरोडाशः, पुं, (पुरोऽग्रे दाश्यते दीयते इति । दाश + कर्म्मणि घञ् । निपातनात् दस्य डः ।) हविर्भेदः । स तु यवचूर्णनिर्म्मितरोटिका- विशेषः । (यथा, मनुः । ६ । ११ । “वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक् ॥”) पिष्टकचमसी । हुतशेषः । इति मेदिनी । शे, ३८ ॥ सोमरसः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=पुरोडाशः&oldid=149570" इत्यस्माद् प्रतिप्राप्तम्