सामग्री पर जाएँ

पुरोहितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुरोहितः, पुं, पुरो दृष्टादृष्टफलेषु कर्म्मसु धीयते आरोप्यते यः । (यद्वा, पुर आदावेव हितं मङ्गलं यस्मात् ।) शान्त्यादिकर्त्ता । तत्पर्य्यायः । पुरोधाः २ । इत्यमरः । २ । ८ । ५ ॥ धर्म्मकर्म्मादि- कारकः ३ । इति शब्दरत्नावली ॥ तस्य लक्षणं यथा, चाणक्ये । “वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः । आशीर्व्वादवचोयुक्त एष राजपुरोहितः ॥” तस्य वर्ज्जनीयलक्षणं यथा, -- “काणं व्यङ्गमपुत्त्रं वानभिज्ञमजितेन्द्रियम् । न ह्नस्वं व्याधितं वापि नृपः कुर्य्यात् पुरोहितम् ॥” इति कालिकापुराणम् ॥ * ॥ पुरोहिते वर्णनीयानि यथा, -- “पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः । ब्रह्मण्यो विमलाचारः प्रतिकर्त्तापदामृजुः ॥” इति कविकल्पलता ॥ (यथा च । “दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ । रक्षेतां नृपतिं नित्यं यत्नाद्वैद्यपुरोहितौ ॥ ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्व्वेदमभाषत । पुरोहितमते तस्माद्वर्त्तेत भिषगात्मवान् ॥” इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=पुरोहितः&oldid=149579" इत्यस्माद् प्रतिप्राप्तम्