पुलकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुलकः, पुं, (पुल + स्वार्थे कन् ।) रोमाञ्चः । तत्पर्य्यायः । रोमोद्भेदः २ त्वक्पुष्पम् ३ त्वग- ङ्कुरः ४ । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्या- सप्तशत्याम् । ३७९ । “प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुच- कलसा । गोवर्द्धनगिरिगुरुतां मुग्धबधूर्निभृतमुप- हसति ॥”) शरीरान्तर्ब्बहिर्भवकीटः । इति हेमचन्द्रः ॥ (तुच्छधान्यम् । यथा, पञ्चतन्त्रे । ३ । ९९ । “पुलका इव धान्येषु पूतिका इव पक्षिषु । मशका इव मर्त्त्येषु येषां धर्म्मो न कारणम् ॥”) प्रस्तरविशेषः । तस्य परीक्षा यथा, -- “पुण्येषु पर्व्वतवरेषु च निम्नगासु स्थानान्तरेषु च तथोत्तरदेशगत्वात् । संस्थापिताश्च नखरा भुजगैः प्रकाशं संपूज्य दानवपतिं प्रथिते प्रदेशे ॥ दाशार्णवागदवमेकलकालगादौ गुञ्जाञ्जनक्षौद्रमृणालवर्णाः । गन्धर्व्ववह्निकदलीसदृशावभासा एते प्रशस्ताः पुलकाः प्रसूताः ॥ शङ्खाब्जभृङ्गार्कविचित्रभङ्गा शूद्रैरुपेताः परमाः पवित्राः । मङ्गल्ययुक्ता बहुभक्तिचित्रा वृद्धिप्रदास्ते पुलका भवन्ति ॥ काकश्वरासभशृगालवृकोग्ररूपै- गृध्रैः समांसरुधिरार्द्रमुखैरुपेताः ॥ मृत्युप्रदास्तु विदुषा परिवर्ज्ज नीया मूल्यं पलस्य कथितञ्च शतानि पञ्च ॥” इति गारुडे ७७ अध्यायः ॥ मणिदोषविशेषः । हरितालम् । गजान्नपिण्डम् । गन्धर्व्वविशेषः । इति मेदिनी । के, १२१ ॥ असुराजी । गल्वर्कः । इति हेमचन्द्रः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुलकः [pulakḥ], 1 Erection or bristling of the hairs of the body, a thrill (of joy or fear), horripilation; चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले Gīt.1; मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे 7; Amaru.59,82.
A kind of stone or gem; Kau. A.2.11.29.
A flaw or defect in a gem.
A kind of mineral.
A ball of food with which elephants are fed (गजान्नपिण्ड).
Yellow orpiment, a dot of the same; रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भे जाम्बूनदेन रचितः पुलको यथैव Abhiṣeka.4.23.
A wine-glass.
A species of mustard.
See पुलाकः (1); अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा Mb.13.91.38 (com. पुलकाः असंपूर्णतण्डुलयुक्तधान्यानि).
A bunch.-Comp. -अङ्गः the noose of Varuṇa. -आलयः an epithet of Kubera. -उद्गमः erection of the hairs of the body, horripilation.
