सामग्री पर जाएँ

पुलिनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुलिनम्, क्ली, (पोलतीति । पुल महत्त्वे + “तलि- पुलिभ्याञ्च ।” उणा० २ । ५३ । इति इनन् । स च कित् ।) तोयोत्थिततटम् । इत्यमरः । १ । १० । ९ ॥ चर इति चडा इति च भाषा ॥ (यथा, रामायणे । २ । ९५ । ९ । “क्वचिन्मणिनिकाशोदांक्वचित् पुलिनशालिनीम् । क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥”) जलादचिरोत्थितं तटम् । इति भरतः ॥ तत्- क्षणतोययुक्तद्वीपम् । इति सुभूतिः ॥ क्रमेणो- त्थितं तटम् । इति स्वामी ॥ जलमध्यस्थमुत्थितं तटम् । इति पञ्जिका ॥ द्वीपम् । इति त्रिकाण्ड- शेषः ॥ (यक्षविशेषे, पुं । यथा, महाभारते । १ । ३२ । १९ । “उलूकश्वसनाभ्याञ्च निमिषेण च पक्षिराट् । प्ररुजेन च संग्रामं चकार पुलिनेन च ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुलिनम्&oldid=149601" इत्यस्माद् प्रतिप्राप्तम्