पुष्करः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्करः, पुं, (पुष + “पुषः कित् ।” उणा० ४ । ४ । इति करन् । स च कित् ।) रोगविशेषः । नाग- विशेषः । सारसपक्षी । नृपभेदः । स तु नल- राजभ्राता । (यथा, महाभारते । ३ । ५९ । ४ । “स समाविश्य च नलं समीपं पुष्करस्य च । गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥” अयं हि कलिसाहाय्येन अक्षद्यूते नलं विजित्य निषधाधिपोऽभवत् । एतद्वृत्तान्तं महा- भारते वनपर्व्वणि ५९ अध्याये द्रष्टव्यम् ॥) वरुणपुत्त्रः । इति मेदिनी । रे, १८७ ॥ (वाद्य- विशेषः । यथा, मार्कण्डेये । १०६ । ६१ । “प्रावाद्यन्त ततस्त्रत्र वेणुवीणादिदर्द्दुराः । पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः ॥”) पर्व्वतविशेषः । इति शब्दरत्नावली ॥ * ॥ सप्तद्वीपानां मध्ये द्वीपविशेषः । पुष्करद्वीपवर्णनं यथा, -- सूत उवाच । “शाकद्बीपस्य विस्ताराद्द्विगुणेन समन्ततः । क्षीरार्णवं समावृत्य द्वीपः पुष्करसंज्ञितः ॥ एक एवात्र विप्रेन्द्राः पर्व्वतो मानसोत्तरः । योजनानां सहस्राणि चोर्द्ध्वं पञ्चाशदुच्छ्रितः ॥ तावदेव च विस्तीर्णः सर्व्वत्र परिमण्डलः । स एव द्वीपो यश्चार्द्धमानसोत्तरसंज्ञितः ॥ एक एव महासानुः सन्निवेशाद्द्विधाकृतः । तस्मिन्द्वीपे स्मृतौ तु द्वौ पुण्यौ जनपदौ शुभौ ॥ अपरौ मानवस्याथ पर्व्वतस्यानुमण्डलौ । महावीतं स्मृतं वर्षं धातकीषण्डमेव च ॥ स्वादूदकेनोदधिना पुष्करः परिभावितः । तस्मिन्द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥ तस्मिन्निवसति ब्रह्मा विश्वात्मा विश्वभावनः । तत्रैव मुनिशार्दूलाः शिवनारायणालयम् ॥ वसन्त्यत्र महादेवो हरार्द्धो हरिरव्ययः । संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ॥ गन्धर्व्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलैः । सुस्थास्तत्र प्रजाः सर्व्वा ब्राह्मणाः सदृशत्विषः ॥ नूतने च क्रमात् पीठे स्थापयेद्विधिपूर्ब्बकम् । मण्डलस्य चतुर्द्दिक्षु चतुःकुम्भांश्च स्थापयेत् ॥ दधिगुडक्षीरपूर्णान् प्रकल्प्य संयुतेऽन्ततः । अथवा तन्मूलदेशे सचूतपल्लवांस्तथा ॥ पीतवस्त्रेण संयुक्तं कुर्य्याद्घटचतुष्टयम् । चन्द्रातपं तदुपरि विचित्रं परिकल्पितम् ॥ कुम्भानाञ्च चतुःपार्श्वे यवतिलैर्युक्ततण्डुलान् । स्थापयेयुः क्रमात्तत्र पूजाकाले द्विजोत्तमाः ॥ मण्डलस्य तथा पूर्ब्बे वारुणं घटमर्पयेत् । नानादेवान् गणेशादीन् ग्रहादींश्च समर्चयेत् ॥ हुत्वा यथाक्रमं तत्र वलिं दद्याद्विचक्षणः । पयोघृतेन क्षीरेण स्नापयित्वा यथाक्रमम् ॥ स्वेन स्वेनैव मन्त्रेण पूजयित्वा च होमयेत् ॥ एवं विधिप्रकारेण यः प्रेतं न तु होमयेत् । पुष्करारिष्टदोषस्तु चतुष्पात्तस्य सम्भवेत् ॥ संवत्सरे तथा पूर्णे षोडशे मासि वै तथा । षण्मासाभ्यन्तरे तस्य सुतहानिं विनिर्द्दिशेत् ॥ अथवा स्वामिनं हन्ति द्वितीयं भ्रातरन्तथा । तृतीयं सर्व्वहानिः स्यात् सुतवित्तविनाशनम् ॥ प्रेतारिष्टविनाशाय यमादीन् यो न होमयेत् । सर्व्वाणि तस्य नश्यन्ति गोमहिषादीनि सर्व्वतः ॥ एवंविधिकृतं होमं यः कर्त्तुमक्षमो भवेत् । होमं कृत्वा यथाशक्त्या धेनुमेकां प्रदापयेत् ॥ अस्मिन् कृते न सन्देहः प्रेतारिष्टं न पीडयेत् । न विघ्नो यजमानस्य न चारिष्टं प्रजायते ॥ एतद्धोमं विनिर्द्दिष्टं यत्नतो न करोति यः । न रक्षति यमस्तस्य एभिर्मासैश्च वंशजम् ॥ सुतो भ्राता तथा जाया पतिः श्वशुर एव च । माता पिता स्वसा वापि पितृव्यो भगिनीपतिः ॥ ज्येष्ठभ्राता पतिश्चापि स्वामी चापत्यमेव च । एकैकं वर्षसंपूर्णे कुटुम्बं पीडयेदध्रुवम् ॥ षोडशे मासि संपूर्णे बान्धवान् परिपीडयेत् ॥ बान्धवानामभावे च वास्तुवृक्षो न जीवति ॥ त्रिपुष्करे तथा दोषे यः प्रेतं न तु होमयेत् । देवता यदि वा रक्षेत् तस्य पुत्त्रो न जीवति ॥ यत्किञ्चिद्दानमुत्सृज्य शुद्धो भवति मानवः । न रक्षति यमस्तस्य यदि होमं न कारयेत् ॥ तस्मात् विधिप्रकारेण पुष्करारिष्टशान्तये । यमं धर्म्मं चित्रगुप्तं पूजयित्वा च होमयेत् ॥ मण्डले घटमारोप्य पूजयित्वा यथाक्रमम् । विधिपूर्ब्बं तथा हुत्वा प्रान्ते दद्याद्वलिं बुधः ॥ प्रभाते च तथा रात्रावशौचान्तदिने तथा । आचार्य्यश्च प्रकुर्व्वीत श्रपयेच्च चरुं ततः ॥ विप्रक्षत्त्रिययोर्दर्भैः पिष्टैर्वैश्यस्य निर्म्मितम् । शूद्रस्य गोमयेनापि प्रतिमां दापयेत्ततः ॥ दत्त्वा मधुघृताक्तञ्च चरुं पश्चाच्च दापयेत् । ततोऽरिष्टः प्रशान्तः स्यात्ततो होमं समापयेत् ॥ संकल्प्य विधिना पूर्ब्बं वस्त्रयुग्मेन यत्नतः । आचार्य्यं वृणुयात्तत्र पश्चादृत्विजमेव च ॥” इति वराहसंहितोक्तपुष्करशान्तिप्रमाणम् ॥
