पुष्करमूलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्करमूलम्, क्ली, (पुष्करस्य मूलमिव मूलमस्य । पुष्करजातं मूलं वा ।) पुष्करदेशप्रसिद्धौषधि- विशेषः । अस्य स्थाने कुष्ठं योजयन्ति । तस्य- पर्य्यायः । मूलम् २ पुष्करम् ३ पद्मपत्रकम् ४ पुष्करिणी ५ वीरम् ६ पौष्करम् ७ पुष्करा- ह्वयम् ८ काश्मीरम् ९ ब्रह्मतीर्थम् १० श्वासारिः ११ मूलपुष्करम् १२ पुष्करजटा १३ पुष्कर- शिफा १४ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवातज्वरश्वासारोचककाशशोफपाण्डुनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ “विशेषात् पार्श्व- शूलनुत् ।” इति भावप्रकाशः ॥ (व्यवहारोऽस्य यथा, -- “भार्गीं पुष्करमूलञ्च रास्नां विल्वं यमानिकाम् । नागरं दशमूलञ्च पिप्पलीञ्चाप्सु साधयेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे भार्ग्यादिक्वाथे ॥)
