सामग्री पर जाएँ

पुष्करस्रजौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्करस्रजौ, पुं, (पुष्करस्य पद्मस्य स्रक् ययोरिति ।) अश्विनीकुमारौ । द्बिवचान्तोऽयम् । इति शब्द- रत्नावली ॥ (अश्विनीकुमारतुल्ये, त्रि । यथा, वाजसनेयसंहितायाम् । २ । ३३ । “आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् ॥” “किम्भूतं कुमारं पुष्करस्रजं पुष्कराणां पद्मानां स्रक् माला ययोस्तौ पुष्करस्रजौ अश्विनौ अश्विनीकुमारौपुष्करस्रजौ पद्ममालिनौ देवानां भिषजौ । तत्तुल्यः कुमारः पुष्करस्रक् तम् । अश्विसाम्यकथनेन रोगहीनं सुन्दरञ्च पुत्त्र- मधत्तेति सूचितम् ॥” इति तत्र वेददीपः ॥)

"https://sa.wiktionary.org/w/index.php?title=पुष्करस्रजौ&oldid=149627" इत्यस्माद् प्रतिप्राप्तम्