सामग्री पर जाएँ

पुष्करिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्करिणी, स्त्री, (पुष्करवत् आकृतिरस्त्यस्या इति । पुष्कर + इनिः । ततो ङीप् ।) स्थलपद्मिनी । पुष्करमूलम् । इति राजनिर्घण्टः ॥ (पुष्करं शुण्डादण्डस्तदस्त्यस्या इति । इनिः ।) हस्तिनी । सरोजिनी । (पुष्कराणि पद्माणि सन्त्यत्रेति ।) जलाशयः । इति मेदिनी । णे, १०४ ॥ शतधनुःपरि- मितसमचतुरस्रजलाधारः । पुकुर इति पुखरि इति च भाषा । तत्पर्य्यायः । खातम् २ । इत्यमरः । १ । १० । २७ ॥ जलकूपी ३ । इति जटा- धरः ॥ पौष्करिणी ४ । इति शब्दरत्नावली ॥ * ॥ सा तु दक्षिणोत्तरायता कार्य्या । यथा, -- “कूपवापीपुष्करिण्यो दीर्घिका द्रोण एव च । तडागः सरसी चैव सागरश्चाष्टमो मतः ॥ सद्भिर्जलाशयः कार्य्यो यत्नाद्याम्योत्तरायतः ॥” इति कल्पतरौ वायुपुराणम् ॥ * ॥ तस्या लक्षणं यथा । “पुष्करिणीतडागावाह वशिष्ठसंहितायाम् । ‘चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरः । शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता । एतत्पञ्चगुणः प्रोक्तस्तडाग इति निश्चयः ॥ तेन चतुर्द्दिक्षु विंशतिहस्तान्यूनतायां चतुःशत- हस्तान्यूनाभ्यन्तरत्वेन पुष्करिणी । एतज्जला- शयाधारपरं न तु उपरितटम् । शतेन धनुर्भिः पुष्करिणी । इति नव्यवर्द्धमानधृतो वशिष्ठः ॥ * ॥ तत्करणे वास्तुयागः कर्त्तव्यः । महाकपिल- पञ्चरात्रम् । ‘जलाधारगृहार्थञ्च यजेद्वास्तुं विशेषतः । ब्रह्माद्यदितिपर्य्यन्ताः पञ्चाशत्त्रयसंयुताः । सर्व्वेषां किल वास्तूनां नायकाः परिकीर्त्तिताः ॥ असंपूज्य हि तान् सर्व्वान् प्रासादादीन्न कार- येत् । अनिष्पत्तिर्विनाशः स्यादुभयोर्धर्म्मधर्म्मिणोः ॥’ ब्रह्माद्यदितिपर्य्यन्ता इति कल्पान्तरम् । देवी- पुराणोक्त ईशादिकल्प एव व्यवह्नियते । धर्म्म- धर्म्मिणोस्तडागादितत्कर्त्रोः । आरम्भदिने तदकरणे उत्सर्गादिनेऽपि आदौतत्करणम् । यथा, -- ‘प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने । पुरवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये ॥ वास्तूपशमनं कृत्वा ततः सूत्रेण वेष्टयेत् । वास्तुपूजामकुर्व्वाणस्तवाहारो भविष्यति ॥’ इति मत्स्यपुराणे पुरवेश्मप्रवेशे वास्तुयागप्राप्तेः पूर्ब्बोक्तवचने प्रासादधर्म्मातिदेशादत्र वाप्यादि- प्रतिष्ठादिनेऽपि वास्तुयागकरणम् ॥ * ॥ याः फलिनीरिति फलोदकेन ओ~ युवासुवासा इति क्षुद्रघण्टिकायुतां पताकां यष्ट्यां बध्नीयात् । ओ~ यष्ट्यै नमः इतिमन्त्रेण पूजयेत् । पुष्पाद्यल- ङ्कुतां यष्टिं कन्दरसमीपं नयेत् । गुरुस्तु शङ्खादि- निःस्वनै राजतवरुणप्रतिमां उत्तिष्ठेति समुत्थाय प्रदक्षिणत्रयं कृत्वा आपोहिष्टा इत्यादिना मन्त्रेण वरुणस्योत्तम्भनमसि इतिमन्त्रेण च जले क्षिपेत् । ततस्तत्रैव खाते शाद्बलगोमय- दधिमधुकुशमहानदीजलपञ्चरत्नानि ओ~ येते- वापी रोचने दिव इतिमन्त्रेण क्षिपेत् । ओ~ घ्रुवं ध्रुवेण मनसा इतिमन्त्रेण यष्टिमभिमन्त्र्य ओ~ यूपवृक्षेतिमन्त्रेण जलमध्ये आरोपयेत् । ततो जलमातॄः पूजयेत् । यथा ह्रीं पूर्ब्बस्याम् । श्रियं आग्नेय्याम् । शचीं दक्षिणस्याम् । मेधां नैरृत्याम् । श्रद्धां पश्चिमायाम् । विद्यां वाय- व्याम् । लक्ष्मीं उत्तरस्याम् । सरस्वतीं ऐशा- न्याम् । अधो विद्याम् । ऊर्द्ध्वे लक्ष्मीम् । पाद्या- दिभिः संपूज्य अग्निं प्रदक्षिणीकृत्य सूर्य्यादि- द्वात्रिंशद्देवताः पूजयेत् । क्षमस्वेति वरुणं क्षामयेत् । कापिलम् । ‘शङ्खतूर्य्यादिनिनदैस्तथा वै क्षीरधारया ॥’ जलाशयं प्रवेष्टयेदिति शेषः । प्रतिष्ठानन्तरं मात्स्ये । ततः सहसं विप्राणामथवाष्टशतन्तथा । भोजयेच्च यथाशक्त्या पञ्चाशद्वाथ विंशतिम् ॥” इति जलाशयोत्सर्गतत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्करिणी स्त्री।

समचतुरस्रखातः

समानार्थक:पुष्करिणी,खात

1।10।27।2।1

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्. पुष्करिण्यां तु खातं स्यादखातं देवखातकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्करिणी [puṣkariṇī], 1 A female elephant.

A lotus-pool.

A piece of water, lake or pool in general; ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथ Rām.3.73.11.

The lotus-plant.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्करिणी f. a lotus pool , any pool or pond RV. etc.

पुष्करिणी f. Costus Speciosus or Arabicus L.

पुष्करिणी f. Hibiscus Mutabilis L.

पुष्करिणी f. a female elephant L.

पुष्करिणी f. N. of a river S3ivaP.

पुष्करिणी f. of the -wwife of चाक्षुषand mother of मनुHariv.

पुष्करिणी f. of the -mmother of मनुचाक्षुषVP.

पुष्करिणी f. of the -wwife of व्युष्टand -mmother of चक्षुस्and -grandmmother of मनुBhP.

पुष्करिणी f. of the -wwife of उल्मुकib.

पुष्करिणी f. of a temple in मरुor Marwar Buddh.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--the queen of व्युष्ट, and mother of चक्षुष्. भा. IV. १३. १४.
(II)--the queen of Ulmuka. भा. IV. १३. १७.
(III)--see वारुणी--daughter of progenitor वीरण; wife of चाक्षुष. Br. II. ३६. १०२. Vi. I. १३. 3.
(IV)--a तीर्थ: on the नर्मदा. M. १९०. १६. [page२-366+ २५]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

PUṢKARIṆĪ I : Wife of Cākṣuṣa Manu. Cākṣuṣa got of Puṣkariṇī a son named Manu. (Chapter 18, Agni Purāṇa).


_______________________________
*3rd word in left half of page 623 (+offset) in original book.

PUṢKARIṆĪ II : Wife of Bhumanyu, emperor of Bhārata. Bhumanyu got of his wife Puṣkariṇī, six sons named Suhotra, Diviratha, Suhotā, Suhavis, Suyajus and Ṛcika. (Chapter 94, Ādi Parva).


_______________________________
*4th word in left half of page 623 (+offset) in original book.

PUṢKARIṆĪ III W : ife of king Unmukha. Unmukha got of his wife Puṣkariṇī six sons named Aṅga, Sumanas, Khyāti, Kratu, Aṅgiras and Gaya. (4th Skandha, Bhāgavata).


_______________________________
*5th word in left half of page 623 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पुष्करिणी&oldid=432863" इत्यस्माद् प्रतिप्राप्तम्