पुष्कलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्कलः, त्रि, (पुष्कं महत्त्वं लातीति । ला + कः । यद्वा, पुष्कं पुष्टिर्महत्त्वमिति यावत् तदस्त्य- स्येति । पुष्क + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) श्रेष्ठः । इत्यमरः । ३ । १ । ४८ ॥ बहुः । इति हेमचन्द्रः ॥ (यथा, महा- भारते । ३ । ३ । १० । “राजानो हि महात्मानो योनिकर्म्मविशो- धिताः । उद्धरन्ति प्रजाः सर्व्वास्तप आस्थाय पुष्कलम् ॥”) उपस्थितः । इति जटाधरः ॥
