पुष्पम्

विकिशब्दकोशः तः
(पुष्पः इत्यस्मात् पुनर्निर्दिष्टम्)
विविधानि पुष्पाणि

संस्कृतम्[सम्पाद्यताम्]

  • पुष्पः, कुसुमः, प्रसूनः, शिरीषः, सुमनसः, सूनः, प्रसूनकः, पुल्लः, माल्यः, मणीचः, मणीवकः, मरन्दोकसः, लतान्तः, सुमः, प्रसूतः, फल्यः।

नामः[सम्पाद्यताम्]

  • पुष्पः नाम पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति।
  • सुमम्
  • सूनम्
  • कुसुमम्

अनुवादाः[सम्पाद्यताम्]

उदाहरणम्[सम्पाद्यताम्]

  • पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पम्, क्ली, पुष्प्यति विकसति यः । (पुष्प फुल्लने + अच् ।) तरुलतादीनां प्रसवः । फुल इति भाषा । तत्पर्य्यायः । प्रसूनम् २ । कुसुमम् ३ सुमनसः ४ । इत्यमरः । २ । ४ । १७ ॥ सूनम् ५ प्रसवः ६ सुमनः ७ । इति शब्दरत्नावली ॥ स्वहस्तपुष्पचयनफलं यथा, -- “उपहार्य्याणि पुष्पाणि मम कर्म्मपरायणः । यो मामुपानयेद्भूमे मम कर्म्मपथे स्थितः ॥ पुष्पाणि तत्र यावन्ति मम मूर्द्धनि धारयेत् । स कृत्वा पुष्कलं कर्म्म मम लोकाय गच्छति ॥” अकर्म्मण्यपुष्पदाने दोषो यथा, -- पुष्पचयनम् १ पुष्पार्पणे दयितार्थिता २ माला ३ गोत्रस्खलनेर्ष्या ४ वक्रोक्तिः ५ सम्भ्रमाश्लेषः ६ । इति कविकल्पलता ॥ (घोटकलक्षणविशेषः । यथा, अश्ववैद्यके । ३ । ८२ -- ९२ । “आगन्तवस्तुरङ्गस्य ये भवन्त्यन्यवर्णगाः । विन्दवः पुष्पसंज्ञास्तु ते हिताहितसंज्ञकाः ॥ तेषां प्रदेशभेदेन लक्षणं यद् व्यवस्थितम् । तत्तथैव समासेन विस्पष्टं कोर्त्त्यतेऽधुना ॥ अपाने च ललाटे च भ्रुवोर्मर्द्धनि कर्णयोः । निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम् ॥ स्कन्धे वक्षसि कक्षे च मुष्कयोर्बाहुकेशयोः । हन्वोः पृष्ठे च वाहानां पुष्पं स्वामिहित- प्रदम् ॥ नाभौ केशे तथा कण्ठ दन्ते चव हि वाजिनाम् । पुष्पं धन्यतमं प्रोक्तं भर्त्त्रुः सर्व्वार्थसाधकम् ॥ अप्रशस्तानि दृष्टानि मुनिभिर्यानि वाजिनाम् । तानि सम्यक् प्रवक्ष्यामि पुष्पाण्यागमदर्शनात् ॥ अधरोष्ठे कठे प्रोथे उत्तरौष्ठे तथैव च । घोणायां गण्डयोश्चैव शङ्खयोश्च तथा भ्रुवोः ॥ ग्रीवायाञ्च वहे चैव सृक्कणोः स्थूरके स्फिचि । पायौ क्रोडे च पुष्पाणि निन्दितानीति निश्चयः ॥ रक्तं पीतं तथा कृष्णं पुष्पं सर्व्वत्र नेष्यते । शुभप्रदेशसञ्जातं भवेत् साधारणं ततः ॥ पुत्रलाभं धनप्राप्तिमारोग्यं विजयं तथा । विन्द्यात् पुष्पैः शुभैर्भर्त्तुरशुभैश्च विपर्य्ययम् ॥ सर्व्वाङ्गपुष्पितो वाजी परित्याज्जो न संशयः ॥”) स्त्रीरजः । (यथा, मार्कण्डेये । ५१ । ४२ । “स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका ॥”) विकाशः । इति मेदिनी । पे, ८ ॥ धनदस्य विमानम् । नेत्ररोगविशेषः । इति हेमचन्द्रः ॥ फुली इति भाषा ॥ अस्यौषधं यथा, -- “हरीतकी वचा कष्ठं पिप्पली मरिचानि च । विभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला । सर्व्वमेतत् समं कृत्वा छागीक्षीरेण पेषयेत् ॥ नाशयेत्तिमिरं कण्डू पटलान्यर्व्वुदानि च । अधिकानि च मांसानि यश्च रात्रौ न पश्यति ॥ अपि द्विवार्षिकं पुष्पं मासेनैकेन साधयेत् । वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी ॥” इति चक्रपाणिदत्तः ॥ (अस्य चिकित्सान्तरं यथा, -- “पूर्ब्बाहारविहारैस्तु नेत्रे पुष्पञ्च जायते । प्रथमं सुखसाध्यं स्यात् द्वितीयं कष्टसाध्यकम् ॥ तृतीयं शस्त्रसाध्यन्तु चतुर्थन्तदसाध्यकम् । शङ्खपुष्पं तथा रोघ्रं शङ्खनाभिर्मनःशिला ॥ काञ्जिकेन तु संपेष्य छायाशुष्का भिषग्वर ! । वातिके काञ्जिकेनापि पैत्तिके पयसा हिता ॥ श्लैष्मिके मूत्रसंयुक्ता पुष्पस्याञ्जनतो हिता ।” इति हारीते चिकित्सितस्थाने चतुश्चत्वारिंश- त्तमेऽध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुष्पम् [puṣpam], [पुष्प् विकाशे-अच्]

A flower, blossom; पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति Bg.9.26.

The menstrual discharge; as in पुष्पवती q. v.

A topaz (पुष्पराग); Rām.2.94.6.

A disease of the eyes (albugo).

The car or vehicle of Kubera; see पुष्पक.

Gallantry, politeness (in love language).

Expanding, blooming, blossoming (said to be m. in this sense).-Comp. -अग्रम् pistil.

अञ्जनम् calx of brass used as a collyrium.

A white flower-like substance which appears when zinc is mixed with copper and heated for preparing brass.

Zinc oxide (Mar. जस्तफूल). -अञ्जलिः a handful of flowers. -अनुगम् a powder promoting menstruation. -अभिषेक = ˚स्नान q. v. -अम्बु the honey of flowers. -अम्बुजम् the sap of flowers. -अवचयः collecting or gathering flowers. -अवचायिन् = पुष्पाजीव q. v.-अस्त्रः an epithet of the god of love. -आकर a. rich or abounding in flowers; मासो नु पुष्पाकरः V.1.9. -आगमः the spring. -आजीवः a florist, garland-maker. -आननः a kind of liquor. -आपीडः a chaplet of flowers.-आयुधः, -इषुः the god of love; पुष्पायुधं दुराधर्षम् Mb.1. 172.17; Mahimna 23. -आसवम् honey. -आसारः a shower of flowers; पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः Me.45. -आस्तरकः, -आस्तरणम् the art of strewing flowers (one of the 64 Kalās). -उद्गमः appearance of flowers. -उद्यानम् a flower-garden. -उपजीविन् m. a florist, gardener, garland-maker. -करण्डकम् N. of the garden of Ujjayinī. -करण्डिनी N. of the city, Ujjayinī.

कालः 'flower-time', the spring.

the time of the menses. -कासीसम् green (or black) sulphate of iron.-कीटः a large black bee. -केतनः, -केतुः the god of love. (-n.)

calx of flowers.

vitriol (used as a collyrium). -गण्डिका N. of a kind of farce (in which men act as women and women as men); S. D. -गृहम् a flowerhouse, conservatory. -घातकः the bamboo.

चयः gathering flowers

a quantity of flowers. -चापः the god of love. -चामरः a kind of cane. -जम् the juice of flowers. -दः a tree.

दन्तः N. of an attendant of Śiva.

N. of the author of the Mahimnastotra.

N. of the elephant presiding over the northwest; शुद्धाक्षमैन्द्रं भल्लाटं पुष्पदन्तं तथैव च Hariv.

the sun and moon (dual). -दामन् n. a garland of flowers.

द्रवः the sap or exudation of flowers.

an infusion of flowers. -द्रुमः a flowering tree. -धः the offspring of an outcast Brāhmaṇa; cf. व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ Ms.1.21. -धनुस्, -धन्वन् m. the god of love; द्रुतमेत्य पुष्पधनुषो धनुषः Śi.9.41; शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा Ku.2.64. -धरः a. bearing flowers. -धारणः an epithet of Viṣṇu. -ध्वजः the god of love. -निक्षः a bee. -निर्यासः, -निर्यासकः the sap, nectar, or juice of flowers. -नेत्रम् the tube of a flower. -पत्रिन् m. the god of love. -पथः, -पदवी the vulva. -पुटः the calyx of a flower.

(in music) a particular position in dancing. -पुरम् N. of Pāṭaliputra; प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् R.6.24. -प्रचयः, -प्रचायः the plucking or gathering of flowers. -प्रचायिका gathering of flowers. -प्रस्तारः a bed or couch of flowers. -फलः the wood-apple tree.-बटुकः a courtier, gallant; (v. l. for पुष्पनाटक), -बलिः an offering of flowers. -बाणः, -वाणः an epithet of the god of love. -भद्रः a kind of pavilion with 62 columns.-भवः the nectar or juice of flowers. -मञ्जरिका a blue lotus. -माला a garland of flowers.

मासः the month of Chaitra; मम त्वयं विना वासः पुष्पमासे सुदुःसहः Rām.4.1. 41.

the spring; अजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः Ki.1.35. -यमकम् a kind of Yamaka; cf. Bk.1.14. -रजस् n. the pollen. -रथः a carriage for travelling or for pleasure (but not for war); मुख्यः पुष्परथो युक्तः किं न गच्छति ते$ग्रतः Rām.2.26.15. -रसः the nectar or juice of flowers. ˚आह्वयम् honey. -रागः, -राजः a topaz. -रेणुः pollen; वायुर्विधूनयति चम्पकपुष्पपेणून् Kavirahasya; R.1.38. -पुष्परोचनः the Nāgakesara tree. -लावः a flower-gatherer. (-वी) a female flowergatherer; Me.26. -लिक्षः, -लिह् m. a bee. -लिपिः A particular style of writing. -वर्षः, -वर्षणम् a shower of flowers; सुरभि सुरविमुक्तं पुष्पवर्षं पपात R.12.12; पुष्पवर्षो महानभूत् Rām. -वाटिका, -वाटी f. a flower-garden.-वृक्षः a tree bearing flowers. -वृष्टिः f. a shower of flowers; परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे R.12.94. -वेणी a garland of flowers. -शकटिका, -शकटी a heavenly voice, voice from heaven. ˚निमित्तज्ञानम् Knowledge of the omens which result from heavenly voices (one of the 64 Kalās). -शय्या a flowery bed, a couch of flowers. -शरः, -शरासनः, -सायकः the god of love.-समयः the spring. -सारः, -स्वेदः the nectar or honey of flowers. -सारा the holy basil. -सिता a kind of sugar.-स्नानम् a kind of inauguration.

हासः an epithet of Viṣṇu.

the blooming of flowers. -हासा a woman in her courses. -हीना a woman past child-bearing.

"https://sa.wiktionary.org/w/index.php?title=पुष्पम्&oldid=501018" इत्यस्माद् प्रतिप्राप्तम्