पुष्पकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्पकम्, क्ली, (पुष्पमिव पुय्यैर्वा कायति प्रकाशते इति । कै + कः । पुष्प + संज्ञायां कन् वा ।) रीतिपुष्पम् । (पुष्पमिव प्रतिकृतिः । पुष्प + “इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् ।) धनदस्य विमानम् । (कालपर्य्ययेण घनदं विजित्य रावणेन हृतेऽस्मिन् रावणस्यैव जातम् । यथा, रघौ । १० । ४६ । “वैमानिकाः पुण्यकृतः त्यजन्तु मरुतां पथि । पुष्पकालोकसं क्षोभं मेघावरणतत्पराः ॥”) नेत्ररोगः । रत्नकङ्कणम् । रसाञ्जनम् । लोह- कांस्यम् । मृदङ्गारशकटी । इति मेदिनी ॥ कासीसम् । इति हेमचन्द्रः ॥ (पुष्प + स्वार्थे कन् । पुष्पम् । यथा, गारुडे १८२ अध्याये । “सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् । स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥” पुं, निर्व्विषसर्पजातिभेदः । यथा, सुश्रुते कल्प- स्थाने । ४ अध्याये । “निर्व्विषास्तु गलगोली शूकपत्रोऽजगरो दिव्यको वर्षहिकः पुष्पशकली ज्योतीरथः क्षीरिकः पुष्पकोऽतिपताकोऽन्धाहिको गौरा- हिको वृक्षेशय इति ॥” * ॥ पर्व्वतभेदः । यथा, मार्कण्डेये । ५५ । १३ । “स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्व्वतः ॥” प्रासादस्य मण्डपभेदः । यथा विश्वकर्म्मप्रकाशे । ६ अध्याये । “अथातः संप्रवक्ष्यामि मण्डपानाञ्च लक्षणम् । मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ॥ विविधा मण्डपाः कार्य्याः श्रेष्ठमध्यकनीयसः । नामतस्तान् प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ॥ पुष्पकः पुष्पभद्रश्च सुवृतो मृतनन्दनः । कौशल्यो बुद्धिसंकीर्णो गजभद्रो जयावहाः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्पकम् [puṣpakam], 1 Flower.
Calx of brass.
A cup of iron.
The car of Kubera (snatched off from him by Rāvaṇa and from him by Rāma); वैमानिकाः पुण्यकृतस्त्य- जन्तु मरुतां पथि, पुष्पकालोकसंक्षोभम् R.1.46;13.4.
A bracelet.
A kind of collyrium.
A particular disease of the eyes.
A bracelet of jewels.
A small earthen fireplace.
