सामग्री पर जाएँ

पुष्पदन्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्पदन्तः, पुं, (पुष्पमिव शुक्लो दन्तोऽस्य ।) वायु- कोणस्थदिग्गजः । इत्यमरः । १ । ३ । ४ ॥ विद्याधर- विशेषः । इति मेदिनी । ते, २१३ ॥ जिनभेदः । इति हेमचन्द्रः ॥ नागभेदः । इति धरणिः ॥ (यथा, महाभारते । ७ । २०० । ७० । “अणीं कृत्वैलपुत्त्रञ्च पुष्पदन्तञ्च त्र्यम्बकः ॥” पार्व्वतीप्रदत्तः कार्त्तिकेयस्यानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ४९ । “उन्मादं पुष्पदन्तञ्च शङ्कुकर्णं तथैव च । प्रददावग्निपुत्त्राय पार्व्वती शुभदर्शना ॥” विष्णोरनुचरविशेषः । यथा, भागवते । ८ । २१ । १७ । “जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः ॥” शिवगणभेदः । यथा, कथासरित्सागरे । १ । ४९ । “प्रसादवित्तकः शम्भोः पुष्पदन्तो गणोत्तमः । न्यषेधि च प्रवेशोऽस्य नन्दिना द्वारि तिष्ठता ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुष्पदन्तः&oldid=149671" इत्यस्माद् प्रतिप्राप्तम्