पुष्पवन्तौ
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्पवन्तौ, पुं, (पुष्प विकासे + भावे घञ् । पुष्पो विकासोऽस्त्यनयोरिति । पुष्प + मतुप् । मस्य वः ।) एकयोक्त्या चन्द्रसूर्य्यौ । इत्यमरः । १ । ४ । १० ॥ “एकया उक्त्या अपृथग्वचनेन चन्द्रार्कौ पुष्प- वच्छब्दवाच्यौ न तु पुष्पवानिन्दुः सूर्य्यो वेत्यभि- धीयते । साञ्जे । एकयोक्त्येति भिन्नप्रयोगे नैवे- त्यर्थः । अतएव द्व्यर्थकत्वात् सदा द्विवचन- मित्यर्थः । पुष्पो विकाशस्तद्योगाद्वतुः । पुष्प- वन्तशब्दोऽदन्तो रूढोऽपि रविशशिनौ पुष्प- वन्ताख्याविति नाममाला ।” इति तट्टीकायां भरतः ॥
