पुष्पितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्पितः, त्रि, (पुष्प + क्तः । पुष्पं जातमस्येति । पुष्प + तारकादित्वात् इतच् वा ।) जातपुष्पः । पुष्पविशिष्टः । कुसुमितः । यथा, -- “एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्व्वं सुपुत्त्रेण कुलं यथा ॥” इति चाणक्यः ॥
