पुष्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्यः, पुं, (पुष्यन्त्यस्मिन्नर्था इति । पुष + “पुष्य- सिद्धौ नक्षत्रे ।” ३ । १ । ११६ । इति क्यप् ।) अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गताष्टमनक्षत्रम् । तत्तु बाणाकारैकतारात्मकम् । इति ज्योति- षम् ॥ तत्पर्य्यायः । सिध्यः २ तिष्यः ३ । इत्य- मरः । १ । ३ । २२ ॥ पुष्या ४ । इति भरतः ॥ (यथा, मनुः । ४ । ९६ । “पुष्ये तु छन्दसां कुर्य्याद्बहिरुत्सर्ज्जनं द्विजः ॥”) तस्य स्वरूपं यथा, -- “बालपीठकठिनीरजःप्रभे मध्यमाश्रितविहायसे गुरौ । तौलिकात् पृषतशावलोचने लोचनाद्रिकुमितागताः कलाः ॥” २ । ५२ ॥ इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥ तत्र जातस्य फलम् । “प्रसन्नगात्रः पितृमातृभक्तः स्वधर्म्मयुक्तोऽभिनयाभियुक्तः । भवेन्मनुष्यः खलु पुष्यजन्मा सम्मानचामीकरवाहनाढ्यः ॥” इति कोष्ठीप्रदीपः ॥ तन्नक्षत्रे गङ्गास्नानफलं यथा, -- “संक्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्य्ययोः । पुष्ये स्नात्वा तु जाह्रव्यां कुलकोटीः समुद्धरेत् ॥” इति ब्रह्माण्डपुराणम् ॥ * ॥ पौषमासः । कलियुगः । इति मेदिनी । ये, ३८ ॥ (सूर्य्यवंशीयनृपविशेषः । यथा, रघुः । १८ । ३२ । “तस्य प्रभानिर्ज्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी । तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥” पुष + भावे क्यप् । पुष्टिः । यथा, ऋग्वेदे । १ । १९१ । १२ । “त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ॥” “विषस्यास्मदावरकस्य पुष्यं पोषमक्षन् ।” इति तद्भाष्ये सायनः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुष्यः [puṣyḥ], 1 The Kali age.
The month called पौष.
The eighth lunar mansion (consisting of three stars), written also तिष्य. -ष्यम् Ved.
The blossom.
Foam, scum. -ष्या The asterism called पुष्य. -Comp. -अभिषेकः, -स्नानम् a ceremony of coronating a king &c., when the moon stands in the asterism Puṣya.-नेत्रा f. The night on which the Puṣya planet is seen for all the time. -योगः the moon when in conjunction with Puṣya. -रथः = पुष्परथः q. v. युक्तः पुष्परथश्च Pratimā 1.3. -रागः = पुष्परागः q. v.; Kau. A.2.11.29.
