सामग्री पर जाएँ

पुष्यस्नान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्यस्नानम्, क्ली, (पुष्ये पुष्यनक्षत्रकाले स्नानम् ।) पुष्याभिषेकः । तस्य विधिर्यथा, -- और्व्व उवाच । “शृणु राजन् ! प्रवक्ष्यामि पुष्यस्नानविधिक्रमम् । येन विज्ञातमात्रेण विघ्ना नश्यन्ति सन्ततम् ॥ पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत् । सौभाग्यकल्याणकरं दुर्भिक्षमरकापहम् ॥ विष्ट्यादिदुष्टकरणे व्यतीपाते च वैधृतौ । वज्रे शूले हर्षणादौ योगे यदि न लभ्यते ॥ तृतीयायुक्तपुष्यर्क्षं रविसौरिकुजेऽहनि । तदा समस्तदोषाणां तत्स्नानं हानिकारकम् ॥ ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः । तदा पुष्यर्क्षमात्रे तु कुर्य्यान्मासान्तरेऽपि तत् ॥ इयन्तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा । शक्रार्थं सर्व्वदेवानां शान्त्यर्थञ्च जगत्पते ! ॥ * ॥ तुषकेशास्थिवल्मीककीटदेशादिवर्ज्जिते । शर्कराकृमिभस्मादिदोषेण परिवर्जिते ॥ काकोलूकककङ्कैश्च काकोलैर्गृध्रश्येनकैः । वर्जिते कण्टकिवनविभीतकविवर्जिते ॥ शिग्रुश्लेष्मातकाभ्याञ्च जलौकाद्यैर्विवर्जिते । सुस्थाने चम्पकाशोकवकुलादिविभूषिते ॥ हंसकारण्डवाकीर्णे सरस्तीरेऽथवा शुचौ । पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानसुत्तमम् ॥ ततः पुरोहितो राजा नानावादित्रनिःस्वनैः । प्रदोषसमये गच्छेत्तत्स्थानं पूर्ब्बवासरे ॥ तस्य स्थानस्य कौवेर्य्यां दिशि स्थित्वा पुरोहितः । सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः ॥ गोरोचनाभिः सिद्धार्थैरक्षतैश्च फलादिभिः । गन्धद्वारेत्यादिभिस्तु मन्त्रैः सर्व्वाधिवासिकैः । अधिवास्य तु तत् स्थानं पूजयेत्तत्र देवताः ॥ गणेशं केशवं शक्रं ब्रह्माणञ्चापि शङ्करम् । उमया सहितं देवं सर्व्वाश्च गणदेवताः । मातॄश्च पूजयेत्तत्र नृपतिः सपुरोहितः ॥ मङ्गलान् सकलान् कृत्वा नानानैवेद्यसञ्चयम् । प्रदद्यात् पायसं स्वादु फलं मोदकयावकौ ॥ अधिवास्य तु तत् स्थानं दूर्व्वासिद्वार्थकाक्षतैः । तस्मात् स्थानात्तु भूतान्निःसारयेन्मन्त्रमीरयन् ॥ अपसर्पन्तु ते भूता ये भूता भूमिपालकाः । भूतानामविरोधेन स्नानमेतत् करोम्यहम् ॥ ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः । आवाहयेदिमान्देवान् पूज्यान् पुष्याभिषेकतः ॥ आगच्छन्तु सुराः सर्व्वे येऽत्र पूजाभिलाषिणः । सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः ॥ पर्व्वतास्तरवो नद्यः पुण्यान्यायतनानि च । प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः ॥ वाहनानि च दिव्यानि सर्व्वे लोकाश्चराचराः । अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् ॥ एते चान्ये च बहवः पुण्यसंकीर्त्तनाः शुभाः । तोयैस्त्वामभिषिञ्चन्तु सर्व्वोत्पातनिवर्हणाः ॥ इत्येवं शुभदैवत्यैर्मन्त्रैर्दिव्यैस्तथापरैः । शैवैर्नारायणै रौद्रैर्ब्रह्मशक्रसमुद्भवैः ॥ आपोहिष्टा हिरण्येति सम्भवेति सुरेति च । मानस्तोकेतिमन्त्रेण गन्धद्वारेत्यनेन च ॥ सर्व्वमङ्गलमङ्गल्यैः श्रीश्च ते ग्रहयोगिभिः । इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः ॥ सर्व्वमङ्गलमन्त्रेण वस्त्रं कार्पासकं ध्रियात् । आचम्य च ततो देवान् गुरुं विप्रांश्च पूजयेत् ॥ ध्वजं छत्रं चामरञ्च घण्टामश्वान् गजांस्तथा । मन्त्रं जप्त्वा धारयेत्तु ततो गच्छेद्धुताशनम् ॥ तत्र गत्वा वह्निमध्ये वह्निश्रीर्वीक्ष्य पार्थिवः । अनिमित्तनिमित्तानि लक्षयेत्तत्र विन्दुभिः ॥ दैवज्ञकञ्चुकामात्यवन्दिपौरजनैर्वृतः । वादित्रघोषैस्तुमुलैस्तथा तौर्य्यत्रिकैः शुभैः ॥ कृत्वा शेषे पुनः शान्तिमाशीर्व्वाच्य च वै द्विजान् । पूर्णां विधाय विघिवद्दक्षिणां कनकान्युत ॥ धान्यानि चाथ वासांसि दत्त्वा कुर्य्याद्विसर्ज्जनम् । ततः शेषजलैः सर्व्वानमात्यादीन् पुरोहितः । सेचयेच्चतुरङ्गञ्च बलञ्चापि सराष्ट्रकम् ॥ एबं कृत्वा नृपः पश्चात्त्रिरात्रं संयतो भवेत् । मांसमैथुनहीनश्च कुर्य्यान्मङ्गल्यसेवनम् ॥ पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते । तस्यां पूज्या सदा देवी चण्डिका शङ्करेण ह ॥ पञ्चालिकाविवाहाद्यैः शिशूनां कौतुकैस्तथा । वैवाहिकेन विधिना मोदयेच्चण्डिकां शिवाम् ॥ चतुष्पथेषु सर्व्वेषु देवदेवीगृहेषु च । पताकाभिरलङ्कुर्य्यादेवं कुर्व्वन्न सीदति ॥ एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम् । चतुरङ्गैः समं राजा भार्य्याभिस्तनयैः सह । राज्यमण्डलसंयुक्तः परत्रेह न सीदति ॥ नातः परतरो यज्ञो नातः परतरोत्मवः । नातः परतरा शान्तिर्नातः परतरं शिवम् ॥ अनेनैव विधानेन नृपतेरभिषेचनम् । युवराज्याभिषेकञ्च कुर्य्याद्राजपुरोहितः ॥ नृपाभिषेककरणमादौ यदि समाचरेत् । अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा ॥ अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा । एवं यज्ञं नृपो दृष्ट्वा परत्रेह न सीदति ॥” इति कालिकापुराणे पुष्याभिषेकः ८६ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुष्यस्नान/ पुष्य--स्नान n. a partic. ceremony of purification performed while the moon is passing through the asterism -P पुष्य. Var. ( v.l. पुष्प-स्).

"https://sa.wiktionary.org/w/index.php?title=पुष्यस्नान&oldid=314788" इत्यस्माद् प्रतिप्राप्तम्