पूग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूगम्, क्ली, (पूयते मुखमनेनेति । पू ञ पवने + “छापूखण्डिभ्यः कित् ।” उणा० । १ । १२३ । इति गन् किच्च ।) गुवाकफलम् । इत्यमर- टीकायां रायमुकुटः ॥ (यथा, भविष्यपुराणे । तालनवमीव्रतकथायाम् । “पिण्डखर्ज्जूरं जातिश्च एला चैव हरीतकी । नारिकेलं तथा पूगं रम्भापक्वफलन्तथा । तत्र मुख्यं प्रदातव्यं तालस्य फलमुत्तमम् ॥”)

पूगः, पुं, (पूयतेऽनेनेति । पूञ् + “छापूखण्डिभ्यः कित् ।” उणा० । १ । १२३ । इति गन् । स च कित् ।) गुवाकः । समूहः । इत्यमरः ॥ (यथा, महाभारते । ६ । २१ । १४ । “अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः । पुरुषः सनातनतमो यतः कृष्णस्ततो जयः ॥”) छन्दः । भावः । कण्टकिवृक्षः । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूग पुं।

क्रमुकवृक्षः

समानार्थक:घोण्टा,पूग,क्रमुक,गुवाक,खपुर

2।4।169।1।2

घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु। फलमुद्वेगमेते च हिन्तालसहितास्त्रयः॥

अवयव : क्रमुकफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

पूग पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

3।3।20।1।2

पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः। पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूग¦ पु॰ पू--गन् किच्च। (सुपारि)

१ वृक्षे

२ समूहे अमरः

३ छन्दसि

४ भावे

५ कण्टकिवृक्षे च शब्दरत्ना॰।

६ पूग-फले न॰। समूहार्थात् तस्मात् पूरणे डट् तिथुक् च। पूगति ख पूगपूरणे त्रि॰ स्त्रियां ङीप्। पूगे भवः दिगा॰यत्। पूग्य तद्भवे त्रि॰। समासे आद्युदात्तताऽस्य।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूग¦ m. (-गः)
1. The betel-nut tree, (Areca faufel or catechu.)
2. A heap, a quantity, a multitude.
3. Disposition, property, nature.
4. The Jack-tree.
5. An association, a corporation. n. (-गं) The fruit of the faufel, the betel-nut. E. पू to cleanse, गन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूगः [pūgḥ], [पू गन् किच्च; Uṇ.1.121]

A multitude, heap, collection, quantity; केशवः शत्रुपूगहा Mb.5.131.1; घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितम् (श्रवणं) अतृप्ततया Śi.9.64.

An association, corporation, union; नृपेणाधिकृताः पूगाः Y.2.3; Ms.3.151; सत्रिणः ...... पूगजनसमवायेषु विवादं कुर्युः Kau. A.1.13.

The areca or betelnut-tree. (पूगी also); R.4.44; ताम्बूलवल्लीपरिणद्धपूगाः 6.64;13.17; धृष्यत् पूगवनीघनीकृततलैस्तुङ्गैर्जरच्छाखिभिः (लक्ष्यन्ते) Mv.7.13.

Nature, property, disposition. -गम् Areca-nut, betelnut. -Comp. -कृत a. heaped, collected.

पात्रम् a spitting-pot, spittoon.

a betel-box. -पीठः, -ठम् a spitting-pot. -पुष्पिका betel-nut and flowers given to guests at a marriage ceremony. -फलम् the areca-nut.-वैरम् enmity against many men.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूग m. ( ifc. f( आ). ; See. पुञ्ज)any assemblage or combination or body of persons , a multitude , number , mass , quantity (in one place n. ) S3a1n3khBr. Mn. MBh. etc.

पूग m. country court or an assembly of townsmen IW. 296 n. 1

पूग m. disposition , property , nature W.

पूग m. the Areca Catechu , called betel-nut tree( n. its nut) Var. Ka1v. Sus3r.

पूग m. = कण्टकि-वृक्षL.

पूग m. = छन्द, or छन्दस्L. = भावL.

"https://sa.wiktionary.org/w/index.php?title=पूग&oldid=314907" इत्यस्माद् प्रतिप्राप्तम्