पूगम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूगम्, क्ली, (पूयते मुखमनेनेति । पू ञ पवने + “छापूखण्डिभ्यः कित् ।” उणा० । १ । १२३ । इति गन् किच्च ।) गुवाकफलम् । इत्यमर- टीकायां रायमुकुटः ॥ (यथा, भविष्यपुराणे । तालनवमीव्रतकथायाम् । “पिण्डखर्ज्जूरं जातिश्च एला चैव हरीतकी । नारिकेलं तथा पूगं रम्भापक्वफलन्तथा । तत्र मुख्यं प्रदातव्यं तालस्य फलमुत्तमम् ॥”)
