सामग्री पर जाएँ

पूज्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूज्यः, पुं, (पूजयितुमर्हः । पूज + “अर्हे कृत्य- तृचश्च ।” ३ । ३ । १६९ । इति यत् ।) श्वशुरः । पूजनीये, त्रि । तत्पर्य्यायः । प्रतीक्ष्यः २ । इत्य- मरः । ३ । ३ । १५० ॥ यथा, -- “अहं हि पूर्ब्बो वयसा भवद्भ्य- स्तेनाभिवादं भवतां न युक्तम् । यो विद्यया तपसा जन्मना वा वृद्धः स पूज्यो भवति द्विजानाम् ॥ अष्टक उवाच । अवादीश्चेद्वयसास्मि प्रवृद्ध इति वैराजाभ्यधिकः कथञ्चित् । यो वै विद्वांस्तपसा स वृद्धः स एव पूज्यो भवति द्बिजानाम् ॥” इति मात्स्ये ३९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=पूज्यः&oldid=149793" इत्यस्माद् प्रतिप्राप्तम्