पूतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूतिः, स्त्री, (पू + भावे क्तिन् ।) पवित्रता । दुर्गन्धः । इत्यमरटीकायां रायमुकुटः ॥ (यथा, गारुडे १८० अध्याये । “मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणात् शिव । कर्णयोः पूतिनाशः स्यात् कृमिस्रावो विनश्यति ॥”) खट्टाशमुष्कः । खाटाशी इति भाषा । तस्यानु- लेपनगुणः । परमालक्ष्मीरक्षोज्वरनाशित्वम् । इति राजवल्लभः ॥ (अस्या विशोधनं यथा, -- “यथालाभमपामार्गस्रुह्यादिक्षारलेपितम् । वास्पस्वेदेन संस्विद्य पूतिं निर्लोमतां नयेत् ॥ दोलापाकं पचेत् पश्चात् पञ्चपल्लववारिणा । खलः साधुमिवोत्पीड्य ततो निस्नेहतां नयेत् ॥ आजशोभाञ्जनजलैर्भावयेच्च पुनः पुनः । शिग्रुमूलेन केतक्याः पुष्पपत्रपुटे च तम् ॥ पचेदेवं विशुद्धः सन् मृगनाभिसमो भवेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारे ॥ दुर्गन्धविशिष्टे, त्रि । यथा, भगवद्गीतायाम् । १७ । १० । “यातयामं गतरसं पूति पर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥”)
