पूतिकरञ्जः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूतिकरञ्जः, पुं, (पूतियुक्तः करञ्जः ।) करञ्ज- विशेषः । नाटाकरञ्ज इति भाषा । कठकरेज इति हिन्दी भाषा । तत्पर्य्यायः । प्रकीर्य्यः २ पूतिकरजः ३ पूतीकरजः ४ पूतिकः ५ पूतीकः ६ कलिकारकः ७ कलिमालकः ८ कलह- नाशनः ९ । इत्यमरभरतौ ॥ प्रकीर्णः १० रजनीपुष्पः ११ सुमनाः १२ पूतिकर्णिकः १३ कैडर्य्यः १४ कलिमाल्यः १५ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । विषवातार्त्ति- कण्डूविचर्च्चिकाकुष्ठस्पर्शत्वग्दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायान्तरं यथा, “स चोक्तः पूतिकरजः सोमवल्कश्च स स्मृतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
