सामग्री पर जाएँ

पूतिकर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूतिकर्णः, पुं, (पूतिर्दुर्गन्धः कर्णो यस्मात् ।) कर्ण- रोगविशेषः । तल्लक्षणं यथा, -- पूतिकर्णमाह । “कर्णविद्रधिपाकाद्वा म कर्णो वारिपूरणात् । पूयं स्रवति यत् पूति स ज्ञेयः पूतिकर्णकः ॥” कर्णस्रावाद्भेदार्थमाह । पूतीति नियमेन पूति यथा स्यादेवं स्रवति ॥ तच्चिकित्सा यथा, -- “कर्णस्रवे पूतिकर्णे तथैव कृमिकर्णके । सामान्यं कर्म्म कुर्व्वीत योगान् वैशेषिकानपि ॥ सर्ज्जिकाचूर्णसंयुक्तबीजपूररसं क्षिपेत् । कर्णस्रावरुजा दाहास्तेन नश्यन्त्यसंशयम् ॥ १ ॥ आम्रजम्बुप्रवालानां मधुकस्य वटस्य च । एभिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ॥ २ ॥ जातीपत्ररसे तैलं विपक्वं पूतिकर्णजित् ॥ ३ ॥ घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्रसंयुतम् । प्रशस्यते चिरोत्थे तत् सास्रावे पूतिकर्णके ॥ ४ ॥ कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः । पूतिकर्णापहं तैलं वस्तमूत्रेण साधितम् ॥ कुष्ठादितैलम् ॥ ५ ॥ “शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् । तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥ ६ ॥ चूर्णेन गन्धकशिलारजनीभवेन मुष्ट्यंशकेन कटुतैलपलाष्ठके तु । धत्तूरपत्ररसतुल्यमिदं विपक्वं नाडीं जयेच्चिरभवामपि कर्णजाताम् ॥ मुष्टिः पलम् ॥ ७ ॥ कृमिकर्णविनाशाय कृमिघ्नीं कारयेत् क्रियाम् । वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव च ॥ पूरणं हरितालेन गव्यमूत्रयुतेन च । धूपने कर्णदौर्गन्ध्ये गुग्गुलुः श्रेष्ठ उच्यते ॥” इति भावप्रकाशः ॥ (चिकित्सास्य यथा, -- “निर्गुण्डी स्वरसे तैलं सिन्धुधूमरजो गुडः । पूरणः पूतिकर्णस्य शमनो मधुसंयुतः ॥” इत्युत्तरतन्त्रे एकविंशेऽध्याये सुश्रुतेनोक्तम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूतिकर्ण/ पूति--कर्ण m. a disease of the ear with discharge of putrid matter Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पूतिकर्ण&oldid=501028" इत्यस्माद् प्रतिप्राप्तम्