सामग्री पर जाएँ

पूतिकर्णकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूतिकर्णकः, पुं, (पूतिः कर्णो यस्मात् । कप् ।) कर्णरोगभेदः । तस्य लक्षणम् । यथा, -- “कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात् । पूयं स्रवति वा पूति स ज्ञेयः पूतिकर्णकः ॥” इति माधवकरः ॥ (लक्षणान्तरमस्य यथा, -- “स्थिते कफे स्रोतसि पित्ततेजसा विलाप्यमाने भृशसम्प्रतापवान् । अवेदनो वाप्यथवा सवेदनो घनं स्रवेत् पूति स पूतिकर्गकः ॥” इत्युत्तरतन्त्रे विंशेऽध्याये सुश्रुतेनोक्तम् ॥) औषधं यथा, -- “निर्गुण्डी स्वरसे तैलं सिन्धुधूमरजो गुडः । पूरणात् पूतिकर्णस्य शमनो मधुसंयुतः ॥” अथवा । “वरुणार्द्रकपित्थाम्रजम्बूपल्लवसाधितम् । पूतिकर्णापहं तैलं जातीपत्ररसेन वा ॥” इति चक्रपाणिदत्तः ॥ (चिकित्सास्य यथा, -- “घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्वसंयुतम् । प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ॥” इति चोत्तरतन्त्रे एकविंशतितमेऽध्याये सुश्रुते- नोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=पूतिकर्णकः&oldid=149831" इत्यस्माद् प्रतिप्राप्तम्