पूतिनस्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूतिनस्यः, पुं, (पूतिर्दुर्गन्धो नस्यः नासिकाभवो रोगः ।) नासारोगभेदः । तस्य लक्षणम् । यथा, “दोषैर्विदग्धैर्गलतालुमूले संमूर्च्छितो यस्य समीरणस्तु । निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ॥” इति माधवकरः ॥ औषधं यथा, -- “व्याघ्रीदन्तीवचाशिग्रुस्वरसव्योषसम्भवैः । पाचितं लावणं तैलं पूतिनासागदं जयेत् ॥” अथवा । “त्रिकटुविडङ्गकसैन्धवबृहतीफलशिग्रुस्वरस- दन्तीभिः । तैलं गोजलसिद्धं नस्यं स्यात् पूतिनस्यस्य ॥” इति चक्रपाणिदत्तः ॥ (अस्य व्याख्याने श्रीकण्ठदत्तेन यद्बिदेहवचन- माहृतं तद्यथा । “नासिका भवो नस्यः पूति- र्नस्यो वायुर्यत्र तं पूतिनस्यम् ।” इहैव विदेहः । “कफपित्तमसृङ्मिश्रं सञ्चितं मूर्द्ध्नि देहिनाम् । विदह्यमुष्मणोद्गाढं रुजां कृत्वाक्षिशङ्खजाम् ॥ ततः प्रस्यन्दते घ्राणात् सरक्तं पूति पीतकम् । पूतिनस्यन्तु तं विद्याद्घ्राणकण्डूल्वणप्रदम् ॥” चिकित्सान्तरमस्य यथा, -- “पूर्ब्बोद्दिष्टे पूतिनस्ये च जन्तोः स्नेहस्वेदौ छर्द्दनं श्रंसनञ्च । युक्तं भक्तं तीक्ष्णमल्पं लघुस्या- दुष्णं तोयं धूमपानञ्च काले ॥” इत्युत्तरतन्त्रे त्रयोविंशेऽध्याये सुश्रुतेनोक्तम् ॥)
