सामग्री पर जाएँ

पूयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूयम्, क्ली, (पूयते दुर्गन्धो भवतीति । पूय + अच् ।) पक्वव्रणादिसम्भवघनीभूतशुक्लवर्णविकृतरक्तम् । पू~य इति भाषा । तत्पर्य्यायः । क्षतजम् २ मल- जम् ३ पूयनम् ४ । प्रसितम् ५ । इति शब्द- चन्द्रिका ॥ (यथा, महाभारते । ३ । १९९ । ५४ । “ये च दुष्कृतकर्म्माणः पूयं तेषां विधीयते ॥”) पूयवर्द्धनद्रव्याणि यथा, -- नवधान्यमाषतिलकलायकुलत्थनिष्पावहरितक- शाकाम्ललवणकटुकगुडपिष्टविकृतिवल्लूरशुष्क- शाकाजाविकानूपौदकमांसवसाशीतोदककृश- रापायसदधिदुग्धतक्रप्रभृतीन् परिहरेत् । “तक्रान्तैर्नवधान्यादिर्योऽयं वर्ग उदाहृतः । दोषसंजननो ह्येष विज्ञेयः पूयवर्द्धनः ॥” इति सुश्रुतः ॥ (अस्य विषयो यथा, -- “वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः ॥” इति सुश्रुते सूत्रस्थाने सप्तदशेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=पूयम्&oldid=149879" इत्यस्माद् प्रतिप्राप्तम्