सामग्री पर जाएँ

पूयालसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूयालसः, पुं, (पूयः अलस इव यत्र । सान्द्रत्वेन चिरान्निर्गमनादेव तथात्वम् ।) सन्धिगतरोग- भेदः । तस्य लक्षणं यथा, -- “पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूतिपूयालसः सः ॥” इति सुश्रुतः ॥ (“पूयालसः सोपनाहः स्रावाश्चत्वार एव च । पर्व्वणीकालजी जन्तुर्ग्रन्थिसन्धौ न वामयाः ॥” “पूयालसन्तु तं विद्यात् सन्धौ कानीनके नृणा- मिति वचनात् ॥” इति भावप्रकाशस्य मध्यखण्डे चतुर्थे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=पूयालसः&oldid=149887" इत्यस्माद् प्रतिप्राप्तम्