सामग्री पर जाएँ

पूरकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूरकः, पुं, (पूरयतीति । पूरि + ण्वुल् ।) वीज- पूरः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “बीजपूरो मातुलुङ्गः सुफलः फलपूरकः । लुङ्गुषः पूरकः पूरो बोजपूर्णोऽम्बुकेशरः ॥” इति वैद्यकरत्नमालायाम् ॥) गुणकाङ्कः । इति लीलावती ॥ ध्यानादिकर्त्तृ- नासिकागतोच्छ्वासः । ब्रह्मध्यानपूर्ब्बकप्राणाया- माङ्गतत्तन्मन्त्रं जपन् वामनासिकया वायुना देहपूरणम् । (यथा, हठयोगप्रदीपिकायाम् । २ । ७१ । “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥”) यथाच व्यासः । “आदानं रोधमुत्सर्गं वायोस्त्रिस्त्रिः समभ्यसेत् । ब्रह्माणं केशवं शम्भुं ध्यायेद्देवाननुक्रमात् ॥ पूर्ब्बवचने त्रिर्जपमात्राभिधानादत्र त्रिस्त्रिरिति वीप्सा सन्ध्यात्रयापेक्षया । ब्रह्माणं केशवं शम्भुं ध्यायन् मुच्येत बन्धनात् ॥ इति योगियाज्ञवल्क्यः । ‘भूर्भुवःस्वर्महर्जनस्तपः सत्यं तथैव च । प्रत्योङ्कारसमायुक्तं तथा तत् सवितुः पदम् ॥ ओ~ आपो ज्योतिरित्येतच्छिरः पश्चात्तु योज- येत् । त्रिरावर्त्तनयोगात्तु प्राणायामस्तु शब्दितः ॥ पूरकः कुम्भको रेच्यः प्राणायामास्त्रलक्षणः । नासिकाकृष्ट उच्छ्वासो ध्यातुः पूरक उच्यते ॥ कुम्भको निश्चलः श्वासो मुच्यमानस्तु रेचकः ॥ मोचनं विशेषयति विष्णुपुराणम् । नासंवृतमुखो जृम्भेद्धासकाशौ च वर्ज्जयेत् । नोच्चेर्हसेत् सशब्दञ्च न मुञ्चेत् पवनं बुधः ॥” इत्याह्निकाचारतत्त्वम् ॥ षोडशचतुरन्यतरसंख्यकप्रणवबीजान्यतरजपे- नैकनासापुटकरणकप्राणायामाङ्गवायुपूरणम् । यथा, मूलमन्त्रस्य बीजस्य प्रणवस्य वा षोडश- वारजपेन वामनासापुटे वायुपूरकं कुर्य्यादिति तन्त्रसारः ॥ * ॥ क्ली, प्रेतदेहनिष्पादकाशौच- कालदेयदशपिण्डम् । यथा, -- “पूरकेण तु पिण्डेन देहो निष्पाद्यते यतः । कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम् ॥” इति वायुपुराणम् ॥ ऋष्यशृङ्गः । “न स्वधाञ्च प्रयुञ्जीत प्रेतपिण्डे दशाहिके । भाषेतैतच्च वै पिण्डं यज्ञदत्तस्य पूरकम् ॥” अत्र भाषणविधौ एतत्पिण्डं यज्ञदत्तस्य पूरक- मित्येतावन्मात्रश्रुतेः शिरःपूरकमित्यादिविशे- षोल्लेखे प्रमाणं नास्ति । इति स्मार्त्तभट्टा- चार्य्याः ॥ प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्ग- वेति विष्णुधर्म्मोत्तरे देहश्रुतेर्देहपूरकमिति प्रयोगापत्तेश्च । तस्मादनिरुद्धभट्टाद्युक्तः केवल- पूरकप्रयोग एव युक्त इति । शातातपः । “भर्त्तुः पिण्डप्रदाने तु साध्वी स्त्री चेद्रजस्वला । वस्त्रं त्यक्त्वा पुनः स्नात्वा सैव दद्याच्च पूरकम् ॥” इति शुद्धितत्त्वम् ॥ * ॥ पूरणकर्त्तरि, त्रि । इति शब्दरत्नावली ॥ (यथा, मनुः । ९ । २८९ । “प्राकारस्य च भेत्तारं परिखाणाञ्च पूरकम् । द्वाराणाञ्चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पूरकः&oldid=149892" इत्यस्माद् प्रतिप्राप्तम्