पूरुष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरुषः, पुं, (पुरति अग्रे गच्छतीति । पुर + “पुरः कुषन् ।” उणा० ४ । ७४ । इति कुषन् । “अन्येषा- मपि दृश्यते ।” ६ । ३ । १३७ । इति निपातनात् दीर्घः ।) पुरुषः । पुमान् । इत्यमरः । २ । ६ । १ ॥ अथ पूरुषलक्षणम् । “पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् । सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥ बाहुनेत्रद्वयं कुक्षिद्वौ तु नासा तथैव च । स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥ ग्रीवाथ कर्णौ पृष्ठञ्च ह्रस्वे जङ्घे सुपूजिते । चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥ सूक्ष्माण्यङ्गुलिपर्व्वाणि दन्तकेशनखत्वचम् । पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥ नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा । हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥ पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥ स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् । उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥ * ॥ कटिर्विशाला बहुपुत्त्रभागी विशालहस्तो नरपुङ्गवः स्यात् । उरो विशालं धनधान्यभागी शिरो विशालं नरपूजितः स्यात् ॥ प्रकारान्तरम् । “दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते । परस्त्रीरमणो नित्यं परवित्तेन वित्तवान् ॥ दीर्घलिङ्गे च सौभाग्यं सूक्ष्मलिङ्गे नृपो भवेत् । वक्रास्यकठिनैर्लिङ्गैः प्रमाणान्निर्गतः सदा ॥ रमते च सदा दास्यां निर्घनो भवति ध्रुवम् । कृशलिङ्गेन सूक्ष्मेण रक्तवर्णेन भूपतिः । बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत् ॥ कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् । राज्यं सुखञ्च दिव्याङ्ग्याः कन्यकायाः पतिर्भवेत् ॥ यस्य पादतले पद्मं चक्रं वाप्यथ तोरणम् । अङ्कुशं कुलिशं वापि स राजा भवति ध्रुवम् ॥ कृशनिर्लोमशा ये स्युः केकराक्षाः कुचेलकाः । कातरा व्यालजिह्वाश्च ते दरिद्रा न संशयः । कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव बृहन्नखाः ॥ कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः । चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये । ते धूर्त्ता नैव सन्देहः समुद्रवचनं यथा ॥ सूचीमुखा भग्नपृष्ठाः कृष्णदन्ताः कुचेलकाः । वक्रनासा वज्रनासास्ते नरा दुष्टमानसाः ॥ दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः । परोपकारिणश्चैव तेऽपूर्ब्बा मानवाः स्मृताः ॥” इति सामुद्रके पुरुषलक्षणम् ॥ * ॥ दानवीरदयावीरयुद्धवीरसत्यवीरसंज्ञकपुरुष- लक्षणन्तु पुरुषपरीक्षाग्रन्थे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरुष पुं।

पुरुषः

समानार्थक:पुमाम्स,पञ्चजन,पुरुष,पूरुष,नर,क्षेत्रज्ञ,धव

2।6।1।2।4

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

पत्नी : स्त्री

सम्बन्धि2 : पुरुषलिङ्गः,दाढिका

वैशिष्ट्यवत् : पुरुषप्रमाणम्

 : द्व्यूढापतिः, कन्यकासुतः, पितृष्वसुः_सुतः, मातृष्वसुः_सुतः, अपरमातृसुतः, पिता, पत्युर्वा_पत्न्याः_वा_पिता, पितुर्भ्राता, मातुर्भ्राता, पत्नीभ्राता, पत्युः_कनिष्ठभ्राता, भगिनीसुताः, पुत्र्याः_पतिः, पितुः_पिता, पितामहस्य_पिता, मातुः_पिता, मातामहस्य_पिता, एकोदरभ्राता, पतिः, मुख्यादन्यभर्ता, बालः, वृद्धः, ज्येष्ठभ्राता, कनिष्ठभ्राता, निर्बलः, बलवान्, स्थूलोदरः, चिपिटनासः, प्रशस्तकेशः, श्लथचर्मवान्, स्वभावन्यूनाधिकाङ्गः, ह्रस्वः, तीक्ष्णनासिकः, गतनासिकः, पशुखुरणसदृशनासिकः, विरलजानुकः, ऊर्ध्वजानुकः, संलग्नजानुकः, श्रवणशक्तिहीनः, कुब्जः, रोगादिना_वक्रकरः, अल्पशरीरः, जङ्घाहीनः, खण्डितकेशः, उन्नतनाभियुक्तपुरुषः, परिवेत्तुर्ज्येष्ठभ्राता, ऋणं_दत्वा_तद्वृत्याजीविपुरुषः, कृषीवलः, कालेप्यश्मश्रुः_पुरुषः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरुष¦ पु॰ पूर--उषन्।

१ पुरुषे

२ नरे च अमरः तस्य शुभा-शुभलक्षणं पुरुषशब्दे उक्तं किञ्चिदधिकमत्रोच्यते
“कटिर्विवशाला बहुपुत्रभागी विशालहस्तो नरपुङ्कवःस्यात्। उरो विशालं धनधान्यभागी शिरोविशालंनरपूजितः स्यःत्। न श्रीस्त्यजति रक्ताक्षं नार्थकनकपिङ्गलम्। दीर्थबाहुं न चैश्वर्य्यं न मांसोपचितांसकम्। कदाचिद्दन्तुरो मूर्खः कदाचल्लोमशः मुखी। कदाचित् तुन्दिलो दुःखी कदाचिच्चञ्चला सती। नेत्र-स्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम्। हस्तस्नेहेनचैश्वर्य्यं पादस्नेहेन वाहनम्। अकर्मकठिनौ हस्तौपादावध्वनि कोमलौ। यस्य पाणितले रक्ते तस्यराज्यं विनिर्दिशेत्। दीर्घलिङ्गन दारिद्र्यं स्थूल-लिङ्गेन निर्धनः। कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेनभूपतिः। रेखाभिर्बहुभिर्दुःखं स्वल्पामिर्धनहीनता। रक्ताभिः श्रियमाप्नोति कृष्णाभिर्लोकपूजितः। अङ्गुष्ठो-दरमध्ये तु यवो यस्य विराजितः। उन्नतं भोजनंतस्य शतं जीवति मानयः। अङ्कुशं कुलिशं छत्रं यस्यपाणितले भवेत्। ऐश्वर्य्यञ्च विनिर्दिष्टमशीत्यायुर्भवेद्र-ध्रुवम्। धनुर्यस्य भयेत् पाणौ पङ्कजं वाथ तोरणम्। [Page4398-a+ 38] तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद् ध्रुवम्। कनिष्ठातर्जनीं यावत् रेखा भवति चाक्षता। विंशत्यव्दाधिक-शतं नरा जीवन्त्यनामयाः। कनिष्ठामध्यमां यावत्रेखा भवति चाक्षता। शताब्दं वाथ वाशीतिर्नरोजीवेन्न संशयः। कनिष्ठानामिकायाञ्चेत् रेखा भवतिचाक्षता। विंशत्यब्दाधिकं शतं नरा जीवन्त्यनामय्नाः। कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता। षष्ठिपञ्चा-शदव्दं वा नरा जीवन्त्यसंशयम्। रेखया भिद्यते रेखास्वल्पायुश्च भवेन्नरः। कनिष्ठायां स्थिता रेखा संख्यायावतिका स्मृता। तावती पुरुषाणान्तु नारी भवतिनिश्चित्म्। करमध्यगता रेखा ध्रुवा ऊर्द्ध्वं भवेद् यदि। नृपो वा नृपतुल्यो वा चिरं ख्यातोऽर्थवान् भवेत्। मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः। पितामहस्यवा” किञ्चित् धनञ्च लभते ध्रुवम्। मध्यमायां यदि यवादृश्यन्तेऽत्यन्तशोभनाः। तदान्यसञ्चितं वित्तं प्राप्नो-त्यङ्गुष्ठके यवे। यस्याऽथ चक्रमङ्गुष्ठे यवादूर्द्ध्वञ्चदृश्यते। तदा वै पामरादीनामर्ज्जितं धनमाप्नुयात्। गर्जन्यामथ चक्रञ्च मित्रद्वारा धनं मवेत्। तेनैव विप-रीतन्तु व्ययो भवति निश्चितम्। अनामायां भवेत् चक्रंसर्वद्वारा भवेद्धनम्। तेवैव विपरीतन्तु व्ययो भवतिनिश्चितम्। कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत्। तेनैव विपरीतन्तु व्ययो भवति निश्चितम्। ललाटेदृश्यते यस्य चक्ररेखाचतुष्टयम्। अशीत्यायुः समा-प्नोति पञ्च रेखाः शतं समाः। यस्योन्नतं ललाटञ्चताम्रवर्णञ्च दृश्यते। रेखाहीनश्च कक्षश्च स चोन्मत्तो{??}हीं भ्रमेत्। यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढिसर्वदा। भोगी भवति निर्विण्ण पृथ्वीं भ्रमति सर्वदा। दन्ताश्च विरला यस्य नीचवन्नीचकर्मकृत्। प्रगल्भोदन्तुरः सत्यं वेदान्तपारगो भवेत्”। प्राकारान्तरम्।
“दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते। परस्त्रीरमणो नित्यं परवित्तेन वित्तवान्। दीर्घलिङ्गे चसौमाग्यं सूक्ष्मलिङ्गे नृपो भवेत्। वक्रस्य कठिनै-र्लिङ्गैः प्रमाणान्निर्गतः सदा। रमते च सदा दास्यांनिर्धनो भवति ध्रुवम्। कृशलिङ्गेन सूक्ष्मेणारक्तवर्णेनमूपतिः। बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत्। कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम्। राज्यंसुखञ्च दिव्याङ्ग्याः कन्ययायाः पतिर्भवेत्। यस्य पाद-{??}ले पश्नं चक्रं वाप्यथ तोरणम्। अङ्कुशं कुणिशं[Page4398-b+ 38] वापि स राजा भवति ध्रुवम्। कृशनिर्लोमशा ये स्युःकेकराक्षाः कुचेलकाः। कातरा व्यालजिह्वाश्च तेदरिद्रा न संशयः। कपिला मलिनाङ्गाश्च ह्रस्वाश्चैववृहन्नस्वाः। कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः। चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये। ते धूर्त्तानैव सन्देहः समुद्रवचनं यथा। सूचीमुखाः भग्नपृष्ठाःकृष्णदन्ताः कुचेलकाः। वक्रनासा वज्रनासास्ते नरादुष्टमानसाः। दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः। परोपकारिणैश्चैव तेऽपूर्वा मानवाः स्मृताः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरुष¦ m. (-षः) Man, male, mankind. E. पूर् to be full, (the world,) aff. उषन्; it is also written, पुरुष &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरुषः [pūruṣḥ], = पुरुष q. v.; Bv.1.75.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूरुष m. ( mc. )= पुरुषRV. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of चाक्षुष Manu. भा. VIII. 5. 7.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pūruṣa has in several passages[१] the sense of ‘menial’ or ‘dependent,’ like the English ‘man.’

  1. Rv. vi. 39, 5 (cf., however, Pischel, Vedische Studien, 1, 43);
    x. 97, 4;
    Av. iv. 9, 7;
    x. 1, 17;
    Śatapatha Brāhmaṇa, vi. 3, 1, 22, etc. Cf. Bloomfield, Hymns of the Atharvaveda, 383.
"https://sa.wiktionary.org/w/index.php?title=पूरुष&oldid=473970" इत्यस्माद् प्रतिप्राप्तम्