सामग्री पर जाएँ

पूरुषः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूरुषः, पुं, (पुरति अग्रे गच्छतीति । पुर + “पुरः कुषन् ।” उणा० ४ । ७४ । इति कुषन् । “अन्येषा- मपि दृश्यते ।” ६ । ३ । १३७ । इति निपातनात् दीर्घः ।) पुरुषः । पुमान् । इत्यमरः । २ । ६ । १ ॥ अथ पूरुषलक्षणम् । “पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् । सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥ बाहुनेत्रद्वयं कुक्षिद्वौ तु नासा तथैव च । स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥ ग्रीवाथ कर्णौ पृष्ठञ्च ह्रस्वे जङ्घे सुपूजिते । चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥ सूक्ष्माण्यङ्गुलिपर्व्वाणि दन्तकेशनखत्वचम् । पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥ नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा । हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥ पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥ स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् । उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥ * ॥ कटिर्विशाला बहुपुत्त्रभागी विशालहस्तो नरपुङ्गवः स्यात् । उरो विशालं धनधान्यभागी शिरो विशालं नरपूजितः स्यात् ॥ प्रकारान्तरम् । “दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते । परस्त्रीरमणो नित्यं परवित्तेन वित्तवान् ॥ दीर्घलिङ्गे च सौभाग्यं सूक्ष्मलिङ्गे नृपो भवेत् । वक्रास्यकठिनैर्लिङ्गैः प्रमाणान्निर्गतः सदा ॥ रमते च सदा दास्यां निर्घनो भवति ध्रुवम् । कृशलिङ्गेन सूक्ष्मेण रक्तवर्णेन भूपतिः । बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत् ॥ कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् । राज्यं सुखञ्च दिव्याङ्ग्याः कन्यकायाः पतिर्भवेत् ॥ यस्य पादतले पद्मं चक्रं वाप्यथ तोरणम् । अङ्कुशं कुलिशं वापि स राजा भवति ध्रुवम् ॥ कृशनिर्लोमशा ये स्युः केकराक्षाः कुचेलकाः । कातरा व्यालजिह्वाश्च ते दरिद्रा न संशयः । कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव बृहन्नखाः ॥ कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः । चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये । ते धूर्त्ता नैव सन्देहः समुद्रवचनं यथा ॥ सूचीमुखा भग्नपृष्ठाः कृष्णदन्ताः कुचेलकाः । वक्रनासा वज्रनासास्ते नरा दुष्टमानसाः ॥ दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः । परोपकारिणश्चैव तेऽपूर्ब्बा मानवाः स्मृताः ॥” इति सामुद्रके पुरुषलक्षणम् ॥ * ॥ दानवीरदयावीरयुद्धवीरसत्यवीरसंज्ञकपुरुष- लक्षणन्तु पुरुषपरीक्षाग्रन्थे द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूरुषः [pūruṣḥ], = पुरुष q. v.; Bv.1.75.

"https://sa.wiktionary.org/w/index.php?title=पूरुषः&oldid=316211" इत्यस्माद् प्रतिप्राप्तम्