सामग्री पर जाएँ

पूर्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्णः, त्रि, (पूर्य्यते स्मेति । पॄ पूरि वा + क्तः । “वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।” ७ । २ । २७ । इति इडभावो निपात्यते च ।) पूरितः । सकलः । इत्यमरः । ३ । ३ । ९८ ॥ (यथा, पञ्चदश्याम् । ७ । ७७ । “तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु । पूर्णानन्देकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥”) शक्तः । इति मेदिनी । णे, २२ ॥ स्वीयसुखेच्छा- वदन्यः । इति गदाधरभट्टाचार्य्यः ॥ (प्रधायाः पुत्त्रभेदः । यथा, महाभारते । १ । ६५ । ४७ । “सिद्धः पूर्णश्च बर्ही च पूर्णायुश्च महायशाः ॥” नागभेदः । यथा, महाभारते । १ । ५७ । ५ । “कोटिशो मानसः पूर्णः शलः पालो हली- मकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पूर्णः&oldid=149905" इत्यस्माद् प्रतिप्राप्तम्