सामग्री पर जाएँ

पूर्णकुम्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्णकुम्भः, पुं, (सलिलादिभिः पूर्णः कुम्भः ।) जलपूरितघटः । तत्पर्य्यायः । भद्रकुम्भः २ । इत्यमरः । २ । ८ । ३२ ॥ (यथा, मनुः । ११ । १८७ । “प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नव । तेनैव सार्द्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥”) पूर्णकलसादिश्च । इति भरतः ॥ (ग्रथिताङ्गु- लिभ्यां हस्ताभ्यां परशिरसः पीडनं पूर्णकुम्भः । इति नीलकण्ठः ॥ यथा, महाभारते । २ । २३ । १४ । “बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ । उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्णकुम्भः¦ पु॰ जलादिभिः पूर्णः कुम्भः।

१ जलादिभिःपूरिते घटे अमरः।

२ दानवभेदे पु॰ हरिवं॰

२४

२ अ॰।

"https://sa.wiktionary.org/w/index.php?title=पूर्णकुम्भः&oldid=316329" इत्यस्माद् प्रतिप्राप्तम्