सामग्री पर जाएँ

पूर्त्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्त्तम्, क्ली, (पॄ पालने + भावे क्तः । “न ध्याख्या- पॄमूर्च्छिमदाम् ।” ८ । २ । ५७ । इति निष्ठा- तस्य न नत्वम् ।) पालनम् । इति शब्दरत्ना- वली ॥ (पिपर्त्ति पालयत्यनेन जीवानिति । पॄ + करणे क्तः ।) खातादिकर्म्म । इत्यमरः । २ । ७ । २८ ॥ आदिना देवकुल्यादि । तदुक्तम् । “पुष्करिण्यः सभा वापी देवतायतनानि च । आरामश्च विशेषेण पूर्त्तं कर्म्म विनिर्द्दिशेत् ॥” इति भरतः ॥ तत्करणफलम् । “इष्टापूर्त्तं द्विजातीनां प्रथमं धर्म्मसाधनम् । इष्टेन लभते स्वर्गं पूर्त्ते मोक्षञ्च विन्दति ॥ वापीकूपतडागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्त्तफलमश्नुते ॥” इति वराहपुराणम् ॥ * ॥ वापीत्यादीनां पूर्त्तत्वाभिधानात् शूद्रस्याधिकार- माह जातूकर्णः । “वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥ ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते । इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते । अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके ॥” वैदिके वेदाध्ययनसाध्ये अग्निहोत्रादाविति रत्ना- करः ॥ एवं स्त्रीणामपि पूर्त्ताधिकारः । यथा नारीत्यनुवृत्तौ बृहस्पतिः । “पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥” इति जलाशयतत्त्वम् ॥ (पूर्त्तं खातादिकर्म्म अङ्गत्वेनास्त्यस्येति । अच् । धर्म्मविशेषे, पुं, । यथा, मार्कण्डेये । १३ । १५ । “यतस्ते विमुखा यान्ति निश्वस्यं गृहमेधिनः । तस्मादिष्टिश्च पूर्त्तश्च धर्म्मौ द्वावपि नश्यतः ॥”)

पूर्त्तः, त्रि, (पॄ + कर्म्मणि क्तः ।) पूरितः । छन्नः । इति विश्वः ॥ (यथा, भागवते । ३ । २४ । ३१ । “ऐश्वर्य्यवैराग्ययशोऽवबोध- वीर्य्यश्रिया पूर्त्तमहं प्रपद्ये ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्त्त¦ त्रि॰ पूर--क्त नि॰।

१ पूरिते

२ छन्ने विश्वः। पॄ--पालनेकर्मणि क्त।

३ पालिते। भावे क्त।

४ पालने न॰

५ शब्दर॰।

५ खातादिकर्मणि न॰ अभरः। जातुकर्ण्यः
“वापी कूप-तडागादिदेवतायतनानि च। अन्नप्रदानमारामः पूर्त्त-मित्यभिधीयते”। आरामः पुष्पफलोपायहेतुर्भूभागः।
“अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम्। आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते। ग्रहोपरागेयद्दानं पूर्त्तमित्यभिधीयते। इष्टापूर्त्तं द्विजातीनांधर्मः सामान्थ उच्यते। अधिकारी भवेच्छूद्रः पूर्त्तेधर्मे न वैदिके”। वैदिके वेदाध्यवनसाध्ये अग्निहोत्रा-दाविति” रत्राकरः। एवं स्त्रीणामपि पूर्त्ताधिकारः। यथा नारीत्यनुवृत्तौ वृहस्पतिः
“पितृव्यगुरुदौहित्रान्भर्तुः स्वस्रीयमभ्तुलान्। पूजयेत् कव्यपूर्त्ताभ्यांवृद्धानाथातिथीन् स्त्रियः”। एतेन
“जलाशयोत्सर्गेगोरवतरणानुमन्त्रणयोर्यजमानकर्तृकमन्त्रपाठः तत्रा-मन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽप्य-नधिकारः विशेषोपदेशविरहादिति” द्वैतनिर्णयोक्तं नि-रस्तम्। अतएव तयोर्जलाशयोत्सर्गादिग्रहयज्ञवेदीहोमादिसमाचारः। अत्र होमो वह्रौ न साक्षात्कल्पतरुरत्नाकरधृतापस्तम्बवचनात्। तद्यथा क्षार-लवणाद्युपक्रम्य
“तद्धुतमहुतञ्चाग्नौ न स्त्री जुहुयान्नानु-पेतः इति” अनुपेतः अनुपनीतः, किन्तु ब्राह्मणद्वाराकरणीयः।
“श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्” इति याज्ञवल्क्योक्तेः
“ऋत्विग्वादे नियुक्तौ च समौप्रंपरिकीर्त्तितौ। यज्ञे स्वाम्याप्नुयात् पुण्यं हानिं[Page4405-b+ 38] वादेऽथ वा जयम्” इति वृहस्पत्युक्तेः। वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः।
“वेदमन्त्रवर्जं शूद्रस्येति” छन्दीगाह्निकाचारचिन्तामणिधृतस्मृतौ वेदेतिविशेषणात्।
“शूद्रोऽप्येवंविधः प्रोक्तो विना मन्त्रेण संस्कृतः। न केनचित् समसृजत् छन्दसा तं प्रजापतिः” इतियमस्मृतौ छन्दसा वेदेन इत्युक्तेश्च। तं शूद्रम्। पञ्च-यज्ञस्नानश्राद्धेषु वैदिकेतरमन्त्रीऽपि निषिद्धः। शूद्र-मधिकृत्य
“नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत्” इति याज्ञवल्कीयेन
“व्रह्मक्षत्रविशामेब मन्त्रवत्स्नानमिष्यते। तूष्णीमेव हि शूद्रस्य सनमस्कारकंमतम्” इति योगियाज्ञवल्कीयेन श्राद्धमधिकृत्य
“अयमेवविधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः। अमन्त्रस्य तुशूद्रस्य विप्रो मन्त्रेश्च गृह्यते” इति बराहपुराणीयेन चनमस्कारेणेति तूष्णीमिति मन्त्रवर्जित इत्यभिधानात्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्त्त¦ mfn. (-र्त्तः-र्त्ता-र्त्तं)
1. Filled, full, complete.
2. Covered, concealed. n. (-र्त्त)
1. An act of pious liberality, as digging a well, planting a grove, building a temple, &c.
2. Nourishing, cherishing. It is thus defined in Va4chaspatya:--“वापीकूपतडागादि देवता यतनानि च | अन्न प्रदानमारामः पूर्तमित्यभिघीयते” || E. पृ to cherish or fill, aff. क्त, and the vowel changed. [Page465-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=पूर्त्त&oldid=316960" इत्यस्माद् प्रतिप्राप्तम्