पूर्त्तम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्त्तम्, क्ली, (पॄ पालने + भावे क्तः । “न ध्याख्या- पॄमूर्च्छिमदाम् ।” ८ । २ । ५७ । इति निष्ठा- तस्य न नत्वम् ।) पालनम् । इति शब्दरत्ना- वली ॥ (पिपर्त्ति पालयत्यनेन जीवानिति । पॄ + करणे क्तः ।) खातादिकर्म्म । इत्यमरः । २ । ७ । २८ ॥ आदिना देवकुल्यादि । तदुक्तम् । “पुष्करिण्यः सभा वापी देवतायतनानि च । आरामश्च विशेषेण पूर्त्तं कर्म्म विनिर्द्दिशेत् ॥” इति भरतः ॥ तत्करणफलम् । “इष्टापूर्त्तं द्विजातीनां प्रथमं धर्म्मसाधनम् । इष्टेन लभते स्वर्गं पूर्त्ते मोक्षञ्च विन्दति ॥ वापीकूपतडागानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्त्तफलमश्नुते ॥” इति वराहपुराणम् ॥ * ॥ वापीत्यादीनां पूर्त्तत्वाभिधानात् शूद्रस्याधिकार- माह जातूकर्णः । “वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥ ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते । इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते । अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके ॥” वैदिके वेदाध्ययनसाध्ये अग्निहोत्रादाविति रत्ना- करः ॥ एवं स्त्रीणामपि पूर्त्ताधिकारः । यथा नारीत्यनुवृत्तौ बृहस्पतिः । “पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥” इति जलाशयतत्त्वम् ॥ (पूर्त्तं खातादिकर्म्म अङ्गत्वेनास्त्यस्येति । अच् । धर्म्मविशेषे, पुं, । यथा, मार्कण्डेये । १३ । १५ । “यतस्ते विमुखा यान्ति निश्वस्यं गृहमेधिनः । तस्मादिष्टिश्च पूर्त्तश्च धर्म्मौ द्वावपि नश्यतः ॥”)
